पृष्ठम्:काव्यमाला (दशमो गुच्छकः).pdf/१०३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

वासुदेवविजयम् । १०१ सब्रह्मचारी नवमेघरुच्याः सोदर्यदेश्यो हरिदश्मभासाम् । तमालकान्तेः सदृगाननन्दत्प्रभोद्गमः कश्चन जंपती तौ ॥ ८ ॥ कश्चन प्रभोद्गमः तौ जंपती जायापती आननन्दत् आनन्दयामास । नवमेघरुच्याः सब्रह्मचारी हरिदश्मभासां मरकतत्विषां सोदर्यदेश्यः ईषदसमाप्तः समानोदर्यः । तमालकान्तेः सदृक् सदृशः ॥—सब्रह्मचारीति । ब्रह्म वेदः । तदध्ययनार्थं यद्व्रतं तदपि ब्रह्म तच्चरतीति ब्रह्मचारी । समानं ब्रह्म चरतीति सब्रह्मचारी । 'व्रते' इति णिनिः । 'चरणे ब्रह्मचारिणि' इति समानस्य सः। सोदर्यदेश्य इति । समाने उदरे शयितः स्थितः इत्यर्थे 'सोदराद्यः' इति यत्प्रत्यये विवक्षिते प्रागेव 'विभाषोदरे' इति समानस्य सः । 'ईषदसमाप्तौ कल्पब्देश्यदेशीयरः' । सदृगिति । 'दृग्दृशवतुषु' इति समानस्य सः। जंपती इति । राजदन्तादित्वात् पक्षे जायाशब्दस्य जंभावो दंभावश्च निपात्यते । परनिपातश्च ॥

इयानसावित्यपि कल्पकोट्या दुर्ज्ञानसौभाग्यविशेषसीमा । सुतः स तादृक्त्रिजगत्पवित्रमाहात्म्यभूमाजनि देवकीतः ॥ ९ ॥ देवकीतः स तादृक् सुतो अजनि । असौ इयान् इदंपरिमाणक इति कल्पकोट्या कल्पानां कोट्या अपि दुर्ज्ञानसौभाग्यविशेषसीमा । त्रिजगत्पवित्रमाहात्म्यभूमा ॥-देवकीत इति । 'जनिकर्तुः प्रकृतिः' इत्यपादानसंज्ञा । इयानिति । 'क्रिमिदंभ्यां वो घः' । 'इदं किमोरीश्की' इतीशादेशः । तादृगिति । 'आ सर्वनाम्नः' इत्याकारादेशः । दुर्ज्ञानेति । 'आतो युच्' इति युच् ॥

कलानिधेः संतमसस्य हन्तु: पत्युः सतामात्तरतेरनन्ते । समुद्रियात्प्रादित मोदमाभ्यां विधोर्भवन्ती स्मितचन्द्रिका सा ॥१०॥ विधोर्विष्णोश्चन्द्राच्च भवन्ती स्मितचन्द्रिका आभ्यां जंपतिभ्यां मोदं प्रादित प्रददौ । कलानिधेः कलानां विद्यानां बिम्बषोडशांशानां च निधेः । संतमसस्य व्याप्ततमसोऽज्ञानस्य, तिमिरस्य च हन्तुः । सतां साधूनां, नक्षत्राणां च, पत्युः अनन्ते शेषे, आकाशे च, आत्तरतेः । समुद्रियात् समुद्रोद्भवात् ॥-विधोरिति । 'भुवः प्रभवः' इत्यपादानसंज्ञा । आभ्यामिति । 'कर्मणा यमभिप्रैति स संप्रदानम्' इति संप्रदानसंज्ञा । 'चतुर्थी संप्रदाने' । समुद्रियादिति । भवे 'समुद्राम्राट् घः' ॥

पुरंदराश्मद्युतिचौर्यधुर्यविष्वद्यगक्षाममहःप्रवाहम् । तिर्यक्स्फुरत्सारसनप्रभोर्मीसौदामनीनूतनवारिवाहम् ॥ ११ ॥ सर्वंसहादुर्विषहामनस्यसर्वंकषं सर्वपथीनवीर्यम् । यथामुखीनं मुकुरं रमायाः श्रीकौस्तुभं प्रत्युरसं दधानम् ॥१२॥