पृष्ठम्:काव्यमाला (दशमो गुच्छकः).pdf/१०५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

वासुदेवविजयम् । १०३

प्रत्युरसमिति । 'विभक्त्यर्थेऽव्ययीभावः' । 'प्रतेरुरसः सप्तमीस्थात्' इति समासान्तोऽच् । धारू इति । 'दाधेट्सिशदसदो रुः' ताच्छीलिकः ॥

ये कद्वदाः कोष्णवधूकुचैकश्राद्धाः कवोष्णानि पलान्यदन्तः । सकत्तृणारण्यजुषोऽभवंस्तेऽप्यकापथाः कापुरुपास्तदानीम् ॥ १६ ॥ ये कापुरुषाः कुत्सिताः पुरुषास्तदानीं भगवदाविर्भावसमये अकापथाः सन्मार्गस्था अभवन् । कुत्सितः पन्थाः कापथः । तद्रहिताः । कीदृशाः । कद्वदाः गर्ह्यवादिनः । कोष्णबधूकुचैकश्राद्धाः प्रभूतश्रद्धाः । कवोष्णानि ईषदुष्णानि पललानि अदन्तः । कत्तृणारण्यजुषः । कत्तृणं तृणविशेषः ॥-कद्वदा इति । 'रथवदयोश्च' इति कोः कद्भावः । कत्तृणेति । 'तृणे च जातौ' इति कद्भावः । कापथेति । 'का पथ्यक्षयोः' इति कादेशः । कोष्णेति । 'ईषदर्थे' इति कादेशः । कापुरुषा इति । 'विभाषा पुरुषे' इति कादेशः । कवोष्णानीति। 'कवं चोष्णे' इति कवादेशः । श्राद्धा इति। श्रद्धार्चावृत्तिभ्यो णः मत्वर्थीयः ॥

उदूढहर्षा ननृतुर्मयूरा व्यह्नेऽपि पद्मा व्यरुचन्प्रफुल्लाः । वीरुत्ततिर्भृङ्गकुलैररंसीदामोदमुद्वोढुमिवानुसर्था (?) ॥ १७ ॥ मयूरा उदूढहर्षा ननृतुः । व्यह्ने अपि अहनि अतीतेऽपि पद्माः प्रफुल्ला व्यरुचन् शोभन्ते स्म । विगतमहो व्यह्लः । वीरुत्ततिः भृङ्गकुलैरामोदं सौरभ्यं हर्षं चोद्वोढुमनुसर्था(?) इव ॥-मयूरा इति । मह्यां रौतीति रौतेरचि टिलोपः । महीशब्दस्य मयूभावः । 'वर्णागमो वर्णविपर्ययश्च द्वौ चापरौ वर्णविकारलोपौ । धातोस्तदर्थातिशयेन योगस्तदुच्यते पञ्चविधं निरुक्तम् ॥' 'पृषोदरादीनि यथोपदिष्टम्' इति लोपविकारादयः । व्यह्न इति । 'संख्याविसायपूर्वस्याह्नस्याहनन्यतरस्यां डौ' इत्यहनादेशाभावे रूपम् । उदूढेति । वहेः क्तः । यजादित्वात्संप्रसारणम् । 'हो ढः' 'झषस्तथोर्धोऽधः' इति तस्य धः । तस्य 'ष्टुना ष्टुः' इति ष्टुत्वम् । 'ढो ढे लोपः' । 'ढ्रलोपे पूर्वस्य दीर्घोऽणः' । उद्बोढुमिति । 'सहिवहोरोदवर्णस्य' इत्योकारः । ढलोपः। वीरुदिति । विविधं रोहतीति क्विप् । न्यंक्वादित्वात्हस्य धः । 'अन्येषामपि दृश्यते' इति दीर्घः । प्रफुल्ल इति । 'ञिफला विशरणे'। 'ञितः क्तः' 'ति च' इति अकारस्य उकारः ॥

यायावरा लाक्षणिकाः कठाश्च कौशिक्यनु ब्राह्मणिपैप्पलादाः । ये तैत्तिरीयाः क्रमकाः समे ते विश्वंभरं तुष्टुवुरार्त्विजीनाः ॥ १८ ॥ ते समे सर्वे विप्रा विश्वंभरं तुष्टुवुः । के । यायावराः । 'अग्निहोत्रकमात्रस्तु थात्राशीलो द्विजो हि यः । याचमानः क्रमाद्वर्णान् स हि यायावरः स्मृतः ॥' लाक्षणिका इति । लक्षणमधीतवन्तो ज्ञातवन्तो वा । द्वावर्थावत्रानुवर्तते । क्रमकाः क्रममधीयाना विदन्तो वा । कठाः कठेन प्रोक्तमधीयाना विदन्तो वा । कौशिक्यनुब्राह्मणिपैप्पलादाः । कौशिकिनः कौशिकेन प्रोक्तं कल्पमधीयाना विदन्तो वा । अनुब्राह्मणिनः अनुब्राह्मणमधी-