पृष्ठम्:काव्यमाला (त्रयोदशो गुच्छकः).pdf/९७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
९१
मनोदूतम् ।

अथ दुर्योधनदुःखोपशमार्थ पाण्डवानां सहायसंपत्तिमर्जुनपराक्रम भगवत्साहाय्यं चाह पञ्चभिः-

 शराणां प्रक्षेपैर्गगनमनुकीर्णं रचयतः
 सुनासीरं वीरं गतमदमधीरं कृतवतः
 करालात्कालाग्ने स्वतनुमभितो रक्षितवतो-
 ऽर्जुनस्यातिप्रीत्यै व्यरचि मयतक्ष्णाद्भुतसभा ॥ २७ ॥

शराणामिति । अनुकीर्ण व्याप्तम् । सुनासीर इन्द्रम् । 'वृद्धश्रवाः सुनासीरः ॥

 गिरीन्द्रस्योद्धार्ता परममदहर्तामरपतेः
 समुद्धर्ता स्वेषां सततहितकर्ता प्रणमताम्-
 निराकर्ता भास्वन्महस इति भर्ता त्रिजगतां
 स कर्ता कार्याणां यदि वद किमेपामसुलभम् ॥ २८ ॥

मिरीन्द्रस्येति । गोवर्धनस्योद्धर्ता स चेत्तेषां पाण्डवानां कार्यकर्ता तदा किमसु- लभम् । न किमपीयर्थः ।।

 स कर्तुं चाकर्तुं प्रभुरपरथा कर्तुमपि चे-
 त्समर्थः पार्थानामभिलषितसिद्ध्यै धृतमतिः
 नमेयुस्तान्देवा अपि विहितसेवादरभरा
 नृदेवाः स्युः के वा जगदाखिलसेवास्ति वशगम् ॥ २९ ॥

स इति । अपरथा अन्यथा कर्तुमकमन्यथा कर्तुं समथः स भगवान्यदि पार्था- नामभीप्सितसिद्ध्यै धृतमतिस्तदा सर्वं तेषां सुलभमित्यर्थः ।।

 हुताशात्सुप्रीतादधिगतवतः स्यन्दनवरं
 तथा दिव्यान्यस्त्राण्यपि च धनुरक्षययमिषुधिम् ।।
 गुडाकेशस्याहो क इह तुलनां यास्यति स चे-
 दिशां जेता वीरो भवति किमु ते विस्मय इह ॥ ३० ॥

हुताशादिति । तुलनां साम्यम् ॥

 विधेयं पार्थाना परिकलय दैवं यदिह ते--
 ऽभ्युपायाः प्रारब्धाः क्षयमुपगताः पूर्वविहिताः
 स लाभो द्रौपद्या द्रुपदनृपतेरभ्युपगमः
 समग्राया भूमेर्विजय इह सख्यं भगवता ॥ ३१ ॥