परिभवदुःखं चतुर्भिराह---
दिशां पूर्वादीनां विजयविधिरन्यैरसुलभो
नृपैः किं वा देवैरपि स इह पार्थैरधिगतः ।
वधोऽयं दुःसाध्यः किल मगधराजस्य च पुन-
र्हतिः सा यज्ञेऽसिन्महति शिशुपालस्य सुहृदः ॥ २२ ॥
दिशामिति । मगधराजस्य जरासंधस्य ।।
सखेऽन्यत्ते वच्मि प्रततवरयज्ञे नृपतयो-
ऽवकाशं न प्रापुर्बहुमणिधनोपायनमृतः
विधेयाः सेवायामवहिततराः कार्यकरणे
प्रतीक्षन्तो धर्मात्सजनयनपात सकरुणम् ॥ २३ ॥
सखे इति । उपायनमुपहारः। 'उपायनमुपप्रायमुपहारस्तथोपदा' इत्यमरः अवका- शमवसरं युधिष्ठिरदर्शनावसरम् ३ विधेयो वचनग्राही' इत्यमरः ।।
इदं वारंवारं परिकलयतश्चेतसि सदा
न मे शान्तिर्भ्रान्तिर्मनस इह गाढं विलसति
वरं वह्नौ पातो गरलमशितं बोचितमहो
न सोनभ्रंशेऽस्मिनुचित इह मे जीवनविधिः ॥ २४ ॥
इंदमिति । गरलं विषम् ।
अशक्तोऽहं दुःखोपनयनविधौ हीनकरणः
सहाया संपत्त्या शिथिल इव शक्त्या विरहितः ।
विरुद्धं संपश्यन्त्रहह बहुधा दैवहतकं
विचिन्त्य प्राणानां परिहरणमेवाद्य शरणम् ।। २५ ॥
अशक्त इति। हीनकरणः साधनरहितः । देवं दिष्टम् । विरुद्धं विपरीतम् । परिहरणं त्याग:-
इदं वाक्यं दुर्योधनमुखसरोजोद्गतमथो
समाकर्ण्य प्राह प्रणयपरतन्त्रः स शकनिः
कथं तान्वीर्याध्यान्भृशमनुगृहीतान्मुरजिता
जितारातीन्दृष्ट्वा कुरुवर वृथा खेदसयसे ।। २६ ॥
इदमिति । प्रणयेन प्रीत्या । अयसे प्राप्नोषि । अष गतौ