पृष्ठम्:काव्यमाला (त्रयोदशो गुच्छकः).pdf/९८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
९२
काव्यमाला ।


विधेयमिति । देवं विधेयं अनुकूलं परिकलय जानीहि । तदेवाह स इति ।

 तथाप्येकं यन्मे मनसि तदिहाकर्णय वचः
 सहायैर्नो हीनस्त्वमसि कुरुवंशाम्बुधिविधो ।
 शतं ते सोदर्या गुरुरपि सपुत्रः सुरनदी-
 तनूजो राधेयो ह्यहमपि विधेयाः स्म निरतम् ॥ ३२ ॥

तथापीति सहायानाह-शतं त इति ।।

 सहायैरेभिस्त्वं जयसि हरितो निश्चितमिदं
 ततो यज्ञश्रेष्ठं कुरुकुलमपाकर्तुमुचितः ।
 ददद्दानं भूरि प्रथितजयसंजातसुयशा
 न तापस्य स्मर्ता बकरिपुकृताक्षेपजनुषः ।। ३३ ॥

सहायैरिति । इरितो दिशः । दददिति । "नाभ्यस्तात्-' इति नुमभावः । ताप- स्यति स्मृयोगे अधीगर्थ-' इति षष्ठी। लापं न स्मर्तेत्यर्थः ।।

 मुदं धेहि खान्ते परिहर विषादं अज धृतिं
 समर्थोऽसि स्वीयं सकलमभिलाषं कलयितुम्
 महोत्साहा धीराः किमिति परसंपत्समुदया-
 ल्लभन्ते वैधुर्य करकलितकल्याणत्रिधयः ॥ ३४ ॥

मुदमिति । वैधुर्य दुःखम् ।

 इतीदं संजल्पं सुबलतनयोक्तं श्रुतिपथं
 समानीय प्रज्ञानयनतनयः संमदमधात् ।
 मितं च प्रोवाच प्रकटितनिजार्तिस्तु शकुने
 विजेतव्याः पार्थास्तदभिविजयात्सर्वविजयः ॥ ३५ ॥

इतीदमिति । संजल्प वाक्यम् । समदं हर्षम् । प्रसोदामोदसंभदाः इत्यमरः ॥

त्वदुरूसहायसंपत्यत्त्वेऽपि ते दुर्जया इति जये प्रकारान्तरे पृच्छति--

 न ते शक्या युद्धे कथमपि कृतास्त्राः सुरगणै-
 रजेया दैत्यैश्च प्रकटभुजवीर्याः कृतधियः
 यथा शक्नोम्येतान्परिभवितुमन्येन विधिना
 यथा चेजानीघे द्रुतमुपदिशाशु प्रणयतः ॥ ३६॥

न ते इति । स्पष्टम् ।