पृष्ठम्:काव्यमाला (त्रयोदशो गुच्छकः).pdf/९४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
८८
काव्यमाला ।

 स्थले चासीद्गाढं गरुडमणिसत्खण्डरचिते
 जलभ्रान्त्यां मूढो निजवसनसंकोचनपरः
 सनीरे राजीवादिभिरुपचितेऽत्रापि सरसि
 स्खलन्मनः सोऽभूत्स्फटिकनिचिताश्मस्थलधिया ॥ १३ ॥

स्थलेति गाढमलन्तम् । स्फटिकैनिचिताः खचिता ये अश्मानः । नीलाश्मान इत्यर्थः । नीलमणिकुट्टिमेषु स्फटिंकशकलखचितत्वाद्भ्रान्तिर्जातेत्यर्थः ।

 प्रदेशे कसिंश्चित्स्फटिकरचिते रत्ननिकरैः
 परीते चातुर्यान्मयविरचिताद्विभ्रमकरे
 व्रजन्मन्दं मन्दं ह्यररपिहितं द्वारमिति त-
 दृढभ्रान्त्या दोर्भ्यां विघटनपरोऽभून्निपतितः ॥ १४ ॥

प्रदेश इति । रत्नानां निकरैः समूहः परीते व्याप्ते । समूहनिकरव्यूह-' इत्यमरः । अरराभ्यां कपाटाभ्यां पिहितं दत्तकपाटमिति भ्रान्त्या विघटनं कपाटोद्धादन तत्परः सन् निपतितोऽभूत् । कपाटमररं तुल्ये' इत्यमरः ।।

 अयं वृक्षावासः श्रम इह मया नोद्य इति च
 प्रयातोऽपि स्वैरं न खलु गतवानन्तमलसः !
 पुरः पश्यन्पश्चात्मणिनिचयकान्त्यावनमति-
 भ्रमंस्तत्याजासौ मनसि भृशरूढं जडमतिः ॥ १५ ॥

अयमिति । वृक्षावासो ह्युपवनम् । 'आरामः कृत्रिमं वनम्' इति शाश्वतः । इह. मया श्रमो नोद्यः परिहरणीय इति स्वरं प्रयातोऽप्यन्तं अवसानं न गतवान् । नानावि- धमाणिकिरणाङ्कुरसमुद्भूतया किसलयप्रसूनफलाढ्यलतातातरुभ्रान्त्या वाटिकाभ्रमेण सर्वत्र मणिमयस्थले गच्छन्भ्रान्तोऽभूदिति भावः ।।

 कचिद्रक्ताम्भोजप्रकरखचितैर्गारुडमणि-
 प्रभाभिः काप्यच्छस्फटिककिरणैः श्वेतकमला।
 क्वचिन्नीले रत्नैरसितनलिनेवातिललिता
 विचित्रा सा दृष्टा नृपतितनयेनाद्भुतसभा ॥ १६ ॥

क्वचिदिति । तत्र स्फटिकमाणिकुट्टिमेषु नीलमणिकुट्टिमेषु वा खचितैः पद्मरायकु- रुविन्दशकलै रक्तकमलभ्रान्तिः नीलमणिकुहिमेषु खचितैः स्फटिकहीरकखण्डैः श्वेतपद्म- भ्रान्तिः स्फटिककुट्टिमेषु नीलकमलभ्रान्तिरिति ज्ञेयम् ॥