यदेति । हरितां दिशाम ॥
अथ राजसूयावभृथसमयसोभा पाण्डवदिग्विजयं मयकृताद्भुतसभाशोभातिशयं
युधिष्ठिरमहामान्यं भगवत्साहाय्यं च दृष्ट्वा संतप्तेन दुर्योधनेन च्छलबूतेन पाण्डवानिजिव
सभायां द्रौपदीमानाय्य कष्टं प्रापयित्वा धर्मपरान्पाण्डवान्पीडयतातिदुर्नय आरब्ध इति
भगवता तेषां कष्टं परिहतमितिः राजसूयादारभ्य कविः कथां प्रस्तौति-
ततो यज्ञस्यान्ते झवभूषदिने त्वं स्वमहिषी-
समेतो द्रौपद्याः खपतिसहिताया अनुसरः
धरासंस्थैर्दृष्टः स्तिमितनयनैः कौतुकभरा-
स्पृथापुत्रस्याज्ञापर इव जनैर्विष्टपपते ॥ ९ ॥
तत इति । स्पष्टम् ॥
स्वया त्रातेग्नेर्दितितनयतक्षणाभिरचित्तां
सभां दिव्यामिन्द्रज्वलनवरुणैरप्यसुलभाम् ।
मणिस्तम्भोपेतामचलदिनरत्नाधिकरुचिं
'पृथापुत्रो लेभे तदिह किला हेतुस्तव दया ॥ १० ॥
त्वयेति । अग्नेः खाण्डवदवाग्नेः सकाशात्त्वया त्रातेन रक्षितेन दितितनयतक्ष्णा विनयेन । 'तक्षा त्वक्षाथ वार्धकिः' इति रभसः । दिनरत्नं सूर्यः ॥
तत्र षड्भिः सभां वर्णयन्दुर्योधनस्यानुतापमाह---
कदाचिद्गान्धारीतनयशतमुख्यो हृदि वह-
न्महात्मानं द्रष्टुं मयविरचितामद्भुतसभाम् ।
विवेश क्रोधेष्यनिलद्वथुदूनः करतले-
ऽसिधेनुं बिभ्राणः शकुनिसहजाभ्यामनुगतः ॥ ११ ॥
कदाचिदिति । शतमुख्य इति । ज्येष्ठ इत्यर्थः । देवथुः संतापस्तेन दून उपतप्तः असिधेनुश्छुरिका । 'छुरिका चातिधेनुका' इत्यमरः । 'कटारी' इति भाषायाम् ।।
मणीनां ज्योत्स्नानभिश्छुरितविवरे द्वारि निविश-
न्दृढं भित्तिभ्रान्त्यां भ्रमितमतिरासीत्कुरुपतिः
अथो रत्नज्योतिर्विवृतविवरद्वारसदृशे
प्रदेशे संजातः पृथुतरशिरोधातविवशः ॥ १२ ॥
मणीनामिति । ज्योत्स्नाभिः कान्तिभिः । “ज्योत्ना चन्द्रप्रभा कान्तिः शुक्लपक्षनि- शासु च' इति हैमः । छुरितं मिश्रित विवरमवकाशो यस्य तादृशे द्वार । अथो रत्नज्योति र्भिर्विवृतं उद्घाटितं विवरमवकाशो यस्य तादृशे ॥