पृष्ठम्:काव्यमाला (त्रयोदशो गुच्छकः).pdf/५३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
४७
शृङ्गारधनदशतकम् ।

लाक्षामुज्ज्वलयाधुना चरणयोर्नीवीं च संभावय
 प्रातः कोऽपि निगद्यते मृगद्दशा रत्या चिरं तुष्टया ।। ९०
सीत्कारेण विना श्रमादपि विना श्वासेन वाचा विना
 नीवीग्रन्थिविमोचनेन च विना गाढोपगूढं विना ।
तल्पेनापि विना विना सहचरीसङ्हगेन दीपं विना
 यत्किंचित्समयं तदेव सुरतं दास्यं परं प्रेयसः ।। ११ ॥
आश्लिष्यन्नवधीरितश्चटुशतं कुर्वन्मुहुस्ताडित-
 स्तल्पान्तादपसारितः स्मितमुखस्तिष्ठन्पुरो वारितः ।
नोदास्ते दयितः कथं दयितयापादानतो नेक्षित-
 स्तन्मुग्धे सह यातनापरिणति तत्तत्स्वयं कर्मणः ।। ९२ ॥
मानं मानमुदीरयन्ति कथया मानः स कीदृग्वदे-
 न्मुग्धैवं निजवल्लभं सितमुखो मानार्थमूचे प्रियः ।
आश्लिष्य स्वयमादरेण दयिते गृह्णाति कान्ताधरे
 पश्यन्तीषु सखीषु नाम सुकरो मानस्त्वयाभ्यस्थताम् ॥ ९३ ।।
उन्मीलन्ति सरोरुहाणि मुखतः सौरभ्यमुज्जृम्भते
 दीपो दैन्यमुपैति ते मणिरुचा ध्वस्तप्रकाशः स्वयम् ।
इत्थं तेन रिरंसुना न कलिता यावत्करे तावता
 कालेनोञ्चरति स्म नाम किमपि स्वं ताम्रचूडा खलः ॥ ९४ ।।
गौरोत्तुङ्गपयोधराञ्चलवलच्चित्रोपचारोल्लस-
 स्कस्तूरीरसलेपलेखमकरी सारम्भमुज्जृम्भते ।
पप्रच्युतसर्वजाम्बवरसम्नस्फारजम्बूनदी
 मीनो सेरुशिलातलेऽपतदिवोत्पत्य क्षणं निश्चला ।। ९५ ।।
लावाण्यामृतनिझरा कृशतनुः काचिच्छरनर्मदा
 पूरोन्मग्नपयोधरच्छलमिलदौराद्रिपादद्वया ।
आक्रान्ते जघनस्थले हि पुलिने कान्तेन मन्दे तरं
 काञ्ची सारसशावकैदरदलत्कण्ठैर्मुहुः कूजितम् ।। ९६ ॥