पृष्ठम्:काव्यमाला (त्रयोदशो गुच्छकः).pdf/५१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
४५
शृङ्गारधनदशतकम्

कि का वासवदिग्वधूकरतलादानेय दिग्वल्लभा
 कान्तस्याध्वनि पत्य(?)पातमलिनस्तञ्चन्द्रमःकन्दुकः ॥ ७७ ।।
नायातः सखि निर्दयं स समयः प्रायो गतो गम्यतां
 नष्टं किं यदि नागतः सशपथं रुद्धः कचिद्बन्धुभिः ।
आयास्यत्यथ दुर्जनः परवधूगाढोपगूढाङ्कितः
 प्रातर्दृष्टिमुपागतेन वटुना वृक्षो विदारिष्यते ॥ ७८ ।।
मा गाः कान्त निशामुखे परगृहं मा गास्ततोऽहर्मुखे
 वेश्मासाकमिदं द्वयं वितनुते चायुःक्षतियोषिताम् ।
मा भूत्काञ्चनवञ्चितेति रमणी मा भूदहो खण्डिता
 मुग्धा भावमयाचकार रमणीत्थं वारयन्ती पतिम् ॥ ७९ ॥
प्रेयः प्रेममहाधना स्मितलवोल्लास रसे मज्जती
 सृष्टा केन खलेन वा परवशा योषिद्वराकीयती() ।
मा भूत्काञ्चनवञ्चिता निशि निशि प्राणेश्चरेणाबला,
 पश्येयुर्न च खण्डिता मुखमपि प्रातर्वयस्याश्चिरम् ॥ ८ ॥
आयातेव निवारितः स्मितमुखो यातः समीपं बला-
 दाबद्धो वलया हठेन संरुषा कर्णोत्पलेनाहतः ।
आविद्धो नखरायुधेन हृदये लाक्षारसेनाक्तितः
 कान्तः कामपि तृप्तिमापदुचितं कामस्य वामा गतिः ।। ८१ ॥
मा मां कल्पय लम्पटेषु भवती मा भूः स्वयं खण्डिता
 भूयोऽन्यत्र न जातु यास्यति निशा तुभ्यं शयेय स्फुटम् ।
कस्यास्तीह न मन्दिरे परिमलः कस्याङ्गरागो न वा
 को नालिङ्गति बान्धवं त्यज वृथा तापं प्रसीदाधुना ।। ८२ ॥
पादालक्तकलाञ्छनं निजमुरो(?)माच्छादयालोक्यते
 प्रेयांसो रसपेशला मृगदृशामानन्दथूत्पादकाः ।
रागाशोकमहीरुहस्तबकितस्तत्पादपद्माहतः
 खच्छे वक्षसि बल्लभस्य परितस्तच्छायमेतद्वहिः ॥ ८३ ॥