पृष्ठम्:काव्यमाला (त्रयोदशो गुच्छकः).pdf/३७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
३१
दूतीकर्मप्रकाशः ।

नखोत्तारणतो लाक्षारङ्गतः पादरञ्जने ।
नापिकी तत्कथां श्रुत्वा जल्पत्यन्यकथा यथा ॥ २१ ॥

भो भोः पद्मिनि तेऽद्य वक्त्रकमलं म्लानं कथं वर्तते
 दुःखं ते कथयामि किं मम सदा रात्रिंचरो वल्लभः
हा हात्रास्ति सुबालभास्करसमस्त्वत्प्रेमयोग्यो चरो
 यं दृष्ट्वा तव सुप्रसन्नवदनं तत्कालमाफुल्लति ॥
  (इति नापिकी ।)
नरपतिचुरहानः फारुकीतीजसूनुः
 कविमतिनलिनीनां भासते बालभानुः ।
कविवर कुरु दूतीकर्मवर्मप्रकाशं
 त्विति गदति कृतं तत्पण्डरीविह्वलेन ॥

नायकानां सहायोऽत्र चतुर्धापि प्रसङ्गतः ।
पीठमर्दो विटश्चेटविदूषकाविति कमात् ॥ १॥
त एव नर्मसचिवा दूतकर्मविचक्षणाः ।
किं त्वन्तरपटाद्वाह्ये न प्रत्यक्षेऽपि बोधकाः ॥२॥
देशकालकलाभाषा माधुर्यं च विदग्धता
प्रोत्साहने कुशलता यथोक्तकथनं तथा ।
निगूढमन्त्रतेत्याद्याः सहायानां गुणा मताः ॥ ३ ॥


पीठमर्दो महाविद्वान्कुपितस्त्रीप्रसादकृत् ।
कोऽयं कोपविधिः प्रयच्छ करुणागर्भं वचो जायतां
 पीयूषद्रवदीपिकापरिमलैरामोदिनी मेदिनी ।
आस्तां वा स्पृहयालुलोचनमिदं व्यावर्तयन्ती मुहु-
 यस्मै कुप्यसि तस्य सुन्दरि तपोवृन्दाय वन्दामहे ।।
  (इति पीठमर्दः ।)