पृष्ठम्:काव्यमाला (त्रयोदशो गुच्छकः).pdf/३६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
३०
काव्यमाला ।

••••••••••••••••••••••••••••••••••••••
 •••••••••••••••••••••••••••••••••••••• ।
••••••••••••••••••••••••••••••••••••••
 •••••••••••••••••••••••••••••••••••••• ॥
   (इति सौचिकी।)
अन्योक्तिकैतवं वाक्यं संकेतमुभयोर्मुहुः ।
जल्पन्ती बहुवेषज्ञा वेषधारिणिका यथा ।। १८ ॥

वेषः कस्य धृतस्त्वयाद्य सुभगे जन्मान्तरं त्वत्पते-
 स्वं जानासि कथं पुरातनमति जातिस्मरत्वं मम ।
कुत्रास्ते स वद प्रयोगचतुरे त्वद्द्वारदेशेऽस्त्यसौ
 न ज्ञातः सहसा त्वयेति वचनादश्रूणि सा मुञ्चति ।।
   (इति वेषधारिणी।)
सुकाचवलयान्नारी करमूले प्रयोजिका ।
सदा वदन्त्यन्यगुणं मणिहारिणिका यथा ।। १९ ।।

एकस्मिन्नगरे वरो नरपतिः कामः कलाकालवि
 न्नारी तस्य कुरूपिणी विधिवशात्भग्ना त्वरन्मूर्धनि ।
वं सौन्दर्यरतिः कदा च युवयोर्योगोऽस्ति चेत्संमतं
 धात्रा किं नु पुरा स्मृतं सखि वद प्रायः पुराणो विधिः ।
   (इति मणिहारिणी ।)
तत्तद्गुणकथावाक्यभेदस्यान्योन्यसूचनात् ।
उभयोः कथयन्तीति छद्मना कथिनी यथा ॥२०॥

त्वं काहं कथिकास्मि मद्गतकथां जानासि जानामि ते
 पूर्वं दुर्मदनामकः पतिरभूत्तस्याङ्गना दुर्मतिः
स्वेच्छाक्रीडनतत्परौ विधिवशान्नाशं गतौ तत्पुन
 र्जातौ संप्रति दुर्मदेन च बहिस्त्वं स्मर्यते दुर्मतिः॥
   (इति कथिनी)