पृष्ठम्:काव्यमाला (त्रयोदशो गुच्छकः).pdf/३८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
३२
काव्यमाला ।

कामतन्त्रकलावेदी भवेद्विटवरो यथा ॥४॥
आयातः कुमुदेश्वरो विजयते सर्वेश्चरो मारुतो
 भृङ्गः स्फूर्जति भैरवो न निकटं प्राणेश्वरो मुञ्चति ।
एते सिद्धरसाः प्रसूनविशिखो वैद्योऽनवद्योत्सवो
 मानव्याधिरसौ कृशोदार कथं त्वच्चेतसि स्थास्यति ।।
  (इति विदः ।)
संधानप्रचुरश्चेटः कलहंसादिको यथा ।
सा चन्द्रसुन्दरमुखी स च नन्दसून
 र्दैवान्निकुञ्जभवनं समुपाजगाम
अत्रान्तरे सहचरतरुणौ कठोरे
 पानीयपानकपटेन सरः प्रतस्थे ।।
  (इति चेटः।)
विदूषको हास्यकारी विकृताङ्गादिभिर्यथा ॥ ५ ॥
आनीय नीरजमुखीं शयनोपकण्ठ-
 मुत्कण्ठितोऽस्मि कुचकञ्चुकिमोचनाय
अत्रान्तरे मुहुरकारि विदूषकेण
 प्रातस्तनस्तरुणकुक्कुटकण्ठनादः
  (इति विदूषकः ।)
कचचिबुककुचाने पाणिषु व्याहृतेषु
 प्रथमजलधिपुत्रीसंगमेऽनङ्गभूमौ
ग्रथितनिबिडनीविग्रन्थिनिर्मुक्तिहेतो-
 श्चतुरतरविलासः शार्ङ्गिणो वः पुनातु ।।

इति श्रीकार्णाटकजातीयदूतीकर्मप्रकाशः