पृष्ठम्:काव्यमाला (त्रयोदशो गुच्छकः).pdf/३३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२७
दूतीकर्मप्रकाशः ।

गङ्गाशेषमधुव्रताब्जधनुषां पङ्केरुहस्य श्रियं
 वेणीपोतककीरकोकिलकपोताधीशकोकार्जितम्
हत्वा काञ्चनमेलसिंहकरिणां लक्ष्मीं तथा तस्करि
 त्वं गच्छ प्रभुकृष्णदेवनिकरं संयान्ति यावन्न ते ।।
  (इति विचित्रवचना)
मानविद्याच्छलेनेति गायन्ती तद्गुणश्रियम् ।
तुलितौ विधिना साम्यं युवां गानवती यथा ॥ ७ ॥

संसाराम्बुनिधौ तदेतदनि स्त्रीपुंसरत्नद्वयं
 नारीणां भवती नृणां पुनरसौ सौभाग्यसीमा हरिः ।
सा त्वं तस्य कुरङ्गशावनयने योग्यासि लक्ष्मीपते-
 रेतत्ते कथितं किमन्यदधुना यास्याम्यहं श्वस्तने ।।
  (इति गानवती ।)
धनाभिलाषिणी मिथ्या पुत्रीति च्छलभाषिणी
गुप्तशिक्षी विशेषज्ञा धात्री धूर्ताधिका यथा ॥ ८ ॥

पुत्रि त्वत्पतिरद्य चत्वरतटे दृष्टो मया कूर्चवा-
 न्संतालाङ्गपलाण्डुपङ्कजकरः प्रायः पयोष्णीपशुः
त्वं सौन्दर्यतरङ्गिणी च युवयोर्योगावथोगो वरं
 कामोऽन्योऽस्ति समर्पयामि सुभगें तस्मै चल त्वामहम् ॥
  (इति धात्री)
कुमारी शुकवच्छिमावाक्यमन्योन्यसूचिका ।
क्रीडापुत्तलिका लोभाद्राक्षेक्षुकलतो यथा ॥ ९ ॥

दत्तेयं कमनीयपुत्तलितरा येन त्वया पश्य मे
 रे रे सुन्दरि सोऽपि तिष्ठति बहिस्त्वत्सौख्यमापृच्छति
त्वं द्राक्षास्तबकं गृहाण सुमुखि स्वित्युत्तरं दीयतां
 मद्रेहाङ्गणपृष्ठकण्टकितरोर्मूलेऽतिकष्टं निशि ॥
  (इति कुमारिका ।)