पृष्ठम्:काव्यमाला (त्रयोदशो गुच्छकः).pdf/३४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२८
काव्यमाला।

असमायेन केनापि पत्री वचनचातुरी
प्रेक्षता सा तदा प्रोक्ता तज्ज्ञैः प्रासङ्गिनी यथा ॥ १० ॥

भो वृद्ध क्व च गच्छसि प्रभुवर श्रीगोकुले नूतने
 तत्र त्वं मम पत्रिका प्रियतरं संदेशमाश्रावय ।
यस्याः पङ्कजकुड्मलस्तनयुगं चन्द्राननं सस्मितं
 नेत्रापाङ्गबहिर्मतश्रुतितटं द्वारे कदम्बद्रुमः ।।
  (इति प्रासङ्गिनी )
पुष्पशिल्पातिचातुर्यराजगालाधिपस्तव ।
कण्ठयोग्य इति श्लेष गदन्ती मालिनी यथा ।। ११ ॥

कण्ठालम्बितचम्पको बकुलवद्यूथीभुजः पृष्ठभा
 स्मल्लीपाण्डरबन्धकुन्दरचनावणेखनामाक्तिता
सेवन्ती कजपारिजातकगुलालोरस्थलामण्डितः
 सोऽयं पुष्पसुशिल्पकश्च किमये ज्ञातस्त्वया वल्लभः
  (इति मालिनी ।)
भ्रष्टसंघानिका पश्चादुपालम्भनतत्परा।
अथवा स्थीयते तूष्णीं सा दूती स्खलिता यथा ॥ १२ ॥

हे मुग्धे मा व्रज त्यज रुषं , वर्षानिशा वर्तते,
 हा कष्टं कलकण्ठचातकगणा गर्जन्ति रोलम्बकाः
तत्काले स्वयमागतः प्रियतमो द्वारान्तरात्तद्गृहं
 सा दूती स्खलिता तदोषसि महोपालम्भमालम्भते ।।
  (इति स्खलिता।
यदा कदा समायाता सूचयन्ती मुहुर्मुहुः ।
स्वगृहे गुप्तसंकेतं प्रतिवेशिनिका यथा ॥ १३ ॥

हरे काञ्चनकञ्जकुड्मलकुचे फुल्लारविन्दानने
 रक्ताम्भोजदलाभपाणिचरणे नीलोत्पलालोचने ।