पृष्ठम्:काव्यमाला (त्रयोदशो गुच्छकः).pdf/३२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२६
काव्यमाला।

निर्माय स्वयमेव विस्मितमनाः सौन्दर्यसारेण ये
 स्वव्यापारपरिश्रमस्य कलशं वेधाः समारोपयन् ।
कंदर्पं पुरुषाः स्त्रियोऽपि दधते दृष्टे च यस्मिन्सति
 द्रष्टव्यायधिरूपमामुहि मतिं खस्त्यस्तु ते संततम् ।।
  (इति विप्रश्निका ।)
संघानमधुरा चैटी स्वरतो गुप्तचारिणी ।
छादयन्ती भोगचिह्नं तत्कार्यवचनैर्यथा ॥ ३ ॥

नीरङ्गाधरता कथं तव वचः संजल्पतस्तत्पुरा
 किं भ्रष्टालकपत्रकं तव पतेर्मानप्रणामान्मुहुः ।।
दीर्घोच्छ्वासतरः कथं द्रुततरादाधावतस्तेऽन्तिक
 युक्तं चेटि किमत्र तस्य वसनं विश्वासहेतोस्तव ।।
  (इति चेटी)
ग्रावादिशकलक्षेपाद्वचनच्छलभेदतः ।
सूचयन्ती स्वयंदूती तत्कार्यवचनैर्यथा ॥४॥

मध्याहेऽथ घने निदाघसमये तापो घनो वर्तते.
 कुञ्जे शीतवटे सुशीतलतटे भो पान्थ विश्रामय ।
एकाकी च भवाननं च तरुणी शून्या प्रथा विद्यते
 लज्जा में गदित त्वमेव चतुरो जानासि कालोचितम् ।।
  (इति खयंदूती।)
तत्तद्रूपगतं भावं पटे रूपं प्रदर्श्य च ।
विजानत्युभयोः प्रीतिं चतुरा शिल्पिनी यथा ॥ ५ ॥

सा त्वं मन्मथमञ्जीरी स च युवा भृङ्गस्तवैवोचितः
 श्लघ्यं तद्भवतोः किमन्यदपरं किं त्वेतदाशासहे ।
भाग्योर्गोग्यसमागमेन युवयोर्मानुष्यमाणिक्ययोः
 श्रेयानस्तु विधेर्विचित्ररचनासंकल्पशिल्पश्रमः ।।
  (इति शिल्पिनी । )
साममेदतिरस्कारश्शेषान्योक्तिभयादिमिः।
चतुरोपायसंपन्ना विचित्रवचना यथा ॥ ६॥