दीनं श्रुत्वा नृपतिवचनं संचचालातिवेगा-
त्पश्यङ्रामाङ्रामान्वनगिरितटारामभूदेशभागान् ।
दृष्ट्वा शत्रोश्चकितनयनः पत्तनं भूविशेषं
प्रायो दृष्टं जगति भविनां विस्मयादेश्च हेतुः ।। ८३ ॥
दृष्ट्वा तारां प्रमुदितमनाः संजयन्ती जिनेशं
धिक्कुर्वाणां स्वचरवनितां शीलरत्नप्रभाभिः ।
विद्याधीशं स्मरशरवशं बन्धुवन्मानयन्ती
चित्ते भूयो विरहविधुरं स्वं पतिं चिन्तयन्तीम् ।। ८४ ॥
दूतं मां श्रीविजयनूपतेश्चेतसा मानयस्व
पत्या दत्तां निजकरकजे मुद्रिकां त्वं धरेमाम् ।
जानीथा भो कतिपयदिनैर्निर्जितं खेचरेशं
जेयः शक्रो यदि हि बलिनस्ते प्रभोः कोऽन्यलोकः ॥
दीपे वह्नौ रविमणिकृते प्रोच्छल द्विस्फुलिङ्गे
क्षेप्तुं जीवं विषमविरहादुद्यतोऽरण्यमध्ये ।
तावद्दैवादमितगतिना जानता ते हृतिं च
प्रोक्तोदन्तं निखिलमचिराद्रक्षितः खेचरेण ॥ ८६ ॥
सस्मारक्षेमं शशिमुखि बने वर्तते स्वामिनस्ते
योगो भावी गणितदिवसैर्नास्ति हेतुर्विलम्वे ।
तस्माद्भक्तिं कुरु च सुभगे भूषयाङ्गं स्वकीयं
न स्युर्दुःखे परमगुणिनः कातराः संप्रजा ते ॥ ८७ ॥
अन्यां भार्यो सहज सुतनो क्रीडतो भूमिनाथा-
जातः कोपो मनसि परमप्रीतितस्तेषु चित्ते ।
तस्माज्ज्ञात्वा विमुखवदनां त्वां प्रसन्नां प्रकर्तु
नम्रो यावद्भवति चरणे संहतः स त्वया के ॥८८॥
पादाघातं कुसुमसदृशं मानयित्वा महीशः
कृत्वा तेऽग्रे शपथमतुलं चान्यगेहं प्रधातुम् ।
पृष्ठम्:काव्यमाला (त्रयोदशो गुच्छकः).pdf/२८
एतत् पृष्ठम् परिष्कृतम् अस्ति
२२
काव्यमाला।