पृष्ठम्:काव्यमाला (त्रयोदशो गुच्छकः).pdf/२७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२१
पवनदूतकाव्यम् ।

तत्र व्योमावनिजनगणैर्दृश्यते चापरस्थं
 भूमेश्छाया न मृगशाकौ नापि देहस्वभावः ॥ ७६ ॥
लोके वह्नेर्विरह्दहनं संप्रजाने गरिष्ठं
 कस्मात्प्रश्ने कृत इह जनस्तद्विशेषं ब्रवीमि
एकश्छेद्यो विपुलसलिलैर्मन्त्रवर्णैश्च कैश्चि-
 दन्यः पापो विहितविधिरप्यत्र वर्धिष्णुभावः ।। ७७ ।।
तेजोराशिं जगति दहनस्ते सखा मेऽतिदूरां
 नार्थी प्रेक्षानयति यदि नो किंनिमित्तं हि तेजः ।
प्राप्तं द्रव्यं परजनकृते नो भवेदुन्मुखं य-
 त्तस्यावश्यं किमिह महतां सर्वथा चात्मतापम् ।। ७८ ॥
यस्या दृष्टर्भवति विमदः शत्रुवर्गोऽभिमानी
 वक्रः पन्थाः सततसरलो वारिधिः स्वल्पकूपा ।
खङ्गो माला स्तभति करिराट् दस्युसंघो हि सार्थ-
 स्तां तन्मुद्रां मम करगतां तत्कराब्जे धरस्व ॥ ७९ ॥
उष्णोच्छ्वासैः शुषितवदनां शीलरक्षार्तचित्तां
 त्यक्तास्नानामसितवसनां नेत्रयुक्ताश्रुपातैः ।
त्वं तां दूनां खगपरिचितेर्मद्वपुः क्षेमवाचा
 संतोष्यारं व्यपगतशुचं सर्वथा संप्रकुर्याः ।। ८० ॥
सर्तव्योऽहं पथि च सरता येन में भद्रमुच्चै-
 र्नैवाहं त्वां कथमिति पुनः संप्रयुङ्गेऽस्तमित्रे ।
स्थाने चित्ते भवति भविनां संस्मृतिश्चित्तवृत्ति-
 स्तचित्तं मे चलितचपलं कि स्मरामि त्वयैव ।। ८१ ।।
दूर्वाटव्यां भवतु कुशलं सर्वदा चाशिषा मे
 वेगादस्मिन्विजननिपिने तेऽस्तु मे पुण्ययोगः ।
कारं कारं रिपुमदहति सांधनीयं स्वकार्ये
 किं वाच्यन्ते बहुबलवतो ज्ञातसर्वाङ्गवृत्तेः ॥ ८२ ।।