पृष्ठम्:काव्यमाला (त्रयोदशो गुच्छकः).pdf/२९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२३
पवनदूतकाव्यम् ।

भूयो भूयस्तव पदकजे किं न लग्नोऽत्र पातः
 स्वार्थे कर्तुं चतुरमनुजा मन्यते नापमानम् ॥ ८९ ।।
अन्तर्गूढं वचनमतुलं वायुतः संनिशम्य
 स्वीयां स्मृत्वा कृतचविकृतिं गद्गदामश्रुपातम् ।
नीचेऽवज्ञां सृजति गुणिनश्चेत्प्रपीडां कदाचि-
 त्किं वा पूज्ये प्रणयिनि जने सर्वतश्चोत्तमे च ॥ ९० ॥
स त्वदुःखादशनमतिशं नात्ति न स्नाति नैति
 विद्यां नो संस्मरति कुलजां पैतृकं नापि चापम् ।
आदत्ते नो रुचिरवचनं वक्ति पश्येन्न मृत्युं
 मृत्युं कर्तुं प्रभवति परं बन्धुभिर्वारितोऽपि ॥ ९१ ॥
गेहे तेऽसौ विरहघटिकां नैव सोढुं समर्थो
 मासं किंवा परकरगतायास्तवातिप्रसत्ता ।
नीराहूरं स्थलमिह भुवो यादसां दुःखहेतुः
 किं वा तत्र ह्यनलवशतो मुर्मुरा भासुराङ्गाः ।। ९२ ॥
तारे नारी विषभविषयासक्तचित्तप्रचारः
 किं तद्दुःखं जगति कथितं यन्न चाप्नोति जीवः ।
वाक्यं चेदं विशदमतुलं योगिनो यद्वदन्ति
 तत्ते भर्ता नयनविषयं में कृतं भुञ्ज पाकम् ।। ९३ ।।
तद्वत्त्वं भो हृदयसरले मा स्म युमन्यरेथा
 दुःखेऽवश्यं तनुरपि तरां तानवं संप्रवाति ।
संपश्यस्तत्तव च दयितः सोऽपि दीनाङ्गदीप्ति-
 स्तस्मात्त्वं चेत्स्वपरसुखदा तर्हि मुञ्चात्मपीडाम् ।। १४ ।।
चित्ते तेऽसौ प्रवसति नृपस्तर्हि किं चर्करीषि
 मिथ्याश्रूणां स्वपितवदनं संनिपातं ह्यसम्यक्
चेन्नास्तीशो हृदयवसतौ प्रेमभारः कुतस्ते
 तस्याभावे किमिति सुभगे निर्निमित्तोऽत्र शोकः ।। ९५ ।।