पृष्ठम्:काव्यमाला (त्रयोदशो गुच्छकः).pdf/२४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१८
काव्यमाला।

कंसो ध्वस्तो मधुरपि हतो मारितो मल्लवर्ग:
 किं तैर्लोके विहितमशुभं धातिता विष्णुनामी ।
नैतद्युक्तं कृतमिह पुरा तत्सुलोका हितेषु
 कामे चन्द्रे सरसविपिने कोकिले सद्वसन्ते ॥ ५७ ॥
भार्या दूरं मधुरपि न वा चाक्षुषो नैव रम्यं
 दृश्यं रोहं न भवतिः बने सर्वशस्या च सस्था ।
एकः पापो दहति शशभृन्मे तनुं नेत्रगम्यः
 कृष्णौ पक्षौ यदि च भवतो भाग्वतो नास्य दृष्टिः ।। ५८ ॥
क्षीरं नीरं पिबति जलधेः पङ्कमश्राति भूमे-
 र्नानाग्राहाग्रसति कठिनान्वाडवाग्निः स्वशक्त्या ।
एकं चन्द्रं किमिति सरसं देहपित्तापहारं
 दुष्टात्मानं भुवि विरहिणो नैव तं जन्मशत्रुम् ॥ ५९ ॥
लब्धं चन्द्रं वदनकुहरे दैवतो राहुरेष
 कस्मान्मुञ्चेज्जठरपिठरे नास्ति किंचित्प्रबोधः ।
चेद्वा मुञ्चेत्कथमिह पुनः शंभुना स्थाप्यते के
 निखापो यः सृजति विपदं किं न लब्धप्रविष्टः ॥ ६० ॥
ताबच्चन्द्रो भ्रमतु गगने दीनवका वियोगं
 द्युच्चैः स्वैरं लपतु परभृद्यावदस्या न गीतिः ।
तावच्छोभा भवतु कमले नेत्रयोः कज्जलं नो
 युष्मद्भाग्यादिह परमभूत्तद्धृतिः खेचरेण ।। ६१ ॥
तावत्तेजस्तपतु तपनेऽस्या न शीर्षे खचक्रं
 शेषे कान्तिर्वसतु विमला वेणिबन्धो न यावत् ।
जिष्णोश्वायं चरतु गगने सा न कौसुम्भवाना-
 स्तेषां भाग्यैरिह परमभूद्धिप्रयोगो मया सा ॥ ६२ ।।
तद्वक्रं चेज्जपति शशिनं तत्पुरः किं च कर्जं
 वेणीमानं हरपलधृतं तद्विषः किं च पिच्छम् ।