पृष्ठम्:काव्यमाला (त्रयोदशो गुच्छकः).pdf/२३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१७
पवनदूतकाव्यम्

तां त्वं पूर्णी कुरु निजबलैः पापविद्याधरेशं
 हत्वा युद्धे प्रबलबलिनो नो सहन्ते पराकम् ॥ ५० ॥
पात्रे दानाद्भवति विपदः संप्रहानिश्च केषां
 केषां चोग्राद्गुरुमुखकृतासनताद्वाञ्छिताप्तिः
इष्टाद्देवाद्भवति भुवने सत्रुनाशश्च केषां
 भूयादेतत्रितयमचिरादेकतस्त्वत्सुमित्रात् ।। ५१ ॥
सा मे सेना मदनविजये सारसर्वाङ्गयुक्ता
 सा मे मित्रं परमहितकृत्सर्वलोकेऽप्यनूनम् ।
सा में भूषातनुरुचिकरा सा च केल्यास्तडायः
 संतापानां सहजहरणात्सा च दृष्टिः प्रवृत्तेः ।। ५२ ॥
सा निःश्रोणिः परपदगतौ सार्गला दुःखरोधा-
 त्सा मे मन्त्रो नगरवनितादृष्टिदोषं प्रहन्तुम् ।
सा मे वल्लिर्विपुलफलदा सा सरित्रब्धिनाशा-
 त्सा मे लक्ष्मीर्विविधविभवानन्दसंसाधनाच्च ।। ५३ ॥
चन्द्रश्चायं दहति विरहे योषितोऽङ्गं क्षपायां
 त्वद्यानं तत्प्रकृतिपुरुषस्तेन संबोधवाजम् ।
संसारे भो मम विरचितः केवलं नैव दुःखं
 सर्वेषां स्थाः कृततनुमतां चक्रनेमिक्रमेण ॥ ५४ ।।
चन्द्रश्चैको न दहति परं दुःखदस्ते मृगोऽपि
 नीचाः प्रायोः विधमगतयो मानिताः सज्जनैश्च ।
नाहं चैको रघुपतिरपि श्रीनाथोऽपि नेयिः
 के केऽनेन प्रवरमनुजाः कष्टमार्गे न नीताः ।। ५५ ।।
गोपः कामं जनयति शठी लोकसंतापहेतो-
 र्धीमानीशो जगदुपकृतौ तं प्रहन्ति स मुक्त्वा ।
चन्द्रं चैषा परविकलता कुत्र तस्य प्रजाता
 प्रायः कार्ये वचिदपि पुनर्योगिनोऽपि प्रमोहाः ।। ५३ ॥