पृष्ठम्:काव्यमाला (त्रयोदशो गुच्छकः).pdf/२५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१९
पवनदूतकाव्यम् ।

बाणान्नेत्रे मदननृपतेः खञ्जनः किं च खेट
 ओष्ठावधे रमणमभितो विद्रुमं किं च बिम्बा ॥ ६३ ॥
भृङ्गः पुष्पं जलधरजलं चातको गां प्रवत्सः
 आम्नं पक्वं पिक इव वने राजहंसस्तडागम् ।
चक्रश्चक्रीं तरुकिसलयं नागराजस्तटिन्या-
 स्तद्वत्कान्ताकलितकमला चिन्तयेद्यत्र शून्यः ॥ ६४ ॥
पुण्ये लक्ष्मीधनविकलतां पापपाके निदानं
 संयोगेऽस्या इह न हि परं संप्रपश्यामि लिङ्गम् ।
मुक्त्वा त्वां भो जगति बहुनो किं प्रवच्मि प्रवाक्यं
 कार्यो यत्नो भवतिः क्रियता येन तस्याश्च योग: ।। ६५ ।।
दानं नो मे सकलजनतारोरदावापहारि
 तीव्रं नो वा करणदमनं सत्तपोऽपि प्रसिद्धिम्
शुद्धा नो में परमकरुणा यत्प्रभावाच्च तस्या
 योगासारः पवन सुखदस्त्वां विनेति प्रजाने ।। ६६ ।।
भाग्यं लक्ष्म्याः संकलशशिनः सत्कलां श्रीजिनेशा-
 त्क्षान्तिं कीर्ति मदनजनकाद्व्रह्मणो भारतीं च ।
शीलं साधोः परमकरुणां ध्यानिनः कर्म पुंसां
 संप्रार्थ्यालं नयनदयितं तच्छरीरं व्यधायि ।। ६७ ।।
केषां श्लाघ्या विभवसंहिता भारती वाथ लक्ष्मी-
 र्वन्द्या गङ्गा जलधिजलंगा गौः प्रमान्या हि केषाम् ।
दुर्गा ध्ये या हरतनुगता शाक्तिकानां च शक्ति-
 स्तुल्या वन्द्या मम विरहिणः सैव मान्या प्रचिन्त्या ॥ ६८ ॥
अन्यस्त्रीणां हृदयहरणे वर्धितात्माभिमानः
 कस्तारावामसनिखगयो मुक्तलज्जो वराकः ।
भूमेरुर्ध्वान्तरमधिवसन्भूधरस्थापि काकः
 किं वा जायात्सुरगिरिशिरः क्षुद्रजीवाद्यगम्यम् ॥ ६९