पृष्ठम्:काव्यमाला (त्रयोदशो गुच्छकः).pdf/१७४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

१६ काव्यमाला। शृङ्गारिभिः सुगणिभिः सुरराजलोकै- रत्रान्तरे विनयमानपुरःसरं च । विज्ञप्तिरेव महती च पुनस्तदेव श्रीवीरसिंहनृपतेः कथयांबभूव ।। १५२ ।। तदामात्यादयः सर्वे पुरोहितसमं जनाः । श्रीनृवीर: नमस्कृत्य प्रोचुः प्राञ्जलयो वचः ।। १५३ ॥ स्त्रीहत्या ब्रह्महत्या द्वे त्याज्या सद्भिः सदा प्रभो । गर्हितं सर्वशास्त्रेषु जनाय वचनं महत् ॥ १५४ ॥ नहि भवति यन्न भाव्यं भवति च भाव्यं विनापि यत्नेन । करतलगलमपि नश्यति यस्य हि भवितव्यता नास्ति ।। १५५ ।। अवश्यंभाविभावानां प्रतीकारो भवेद्यदि । तदा दुःखैर्न बाधेरन्नलरामयुधिष्ठिराः ॥ १५६ ॥ तथा चोक्तं स्मृतौ- आततायिनमायान्तमपि वेदाङ्गपारगम् । जिघांसन्तं जिघांसीयान्न तेन ब्रह्महा भवेत् ॥ १५७ ॥ पूर्वं कृतं सुकविना महता श्रुतं नः पाणिग्रहं वपुरविजते(?) पुरतः सखीनाम् । युक्तापराधमपि दैववशाच्च शङ्के राजन्निवारय मनो ह्यनयाच्च पापात् ।। १५८ ॥ एवं विचार्य बहुधा नृपवीरसिंहः पथ्यं वचस्तदनु धर्मवती च मेने । आदिष्टवान्वरकवेर्मरणे निषेधं तस्थौ तदागमनमेव निरीक्षमाणः ॥ १५९ ।। तं भूपतिः कविवरं च विमोचयित्वा दत्वा सतामपि वरिष्ठगणाय तसै ।