देशं तथा पुरशताधिकमेकरम्यं
वासांसि हस्तितुरंगांश्च रथांश्च पत्तीन् ॥ १६० ॥
तां सुन्दरी च सकलाभरणान्वितां वै
गावो महिष्यः(१) परिवारसमं सुदास्यः ।
यानानि भूपतिसमानसुखासनानि
प्रादात्प्रभुः सुतनयां कवये मुदा यः ॥ १६१ ॥
इत्थं भूमिपतेः परात्परतरं लब्ध्वा प्रसादं परं
काश्मीरः कविशेखरो मुदमगाच्छ्रीबिह्लणः सत्कविः
आदिष्टो नृपवीरसिंहप्रभुणा नेष्टं निजं मन्दिरं
संप्राप्तो वरपञ्चशब्दनिनदैर्मार्गेऽतिथीन्पूजयन् ।। १६२ ॥
तत्रैव रतः कविवरः सहजान्विकारा-
न्नानाविधानभिमतान्सततं व्यनक्ति ।
"शशाङ्ककञ्जया (१) च दिवा निशायां
सापि प्रमोदमगमत्कविराजमेत्य ।। १६३ ॥
इति वरचरितं यः श्रीकवेर्बिह्लणस्य
प्रपठति नियतं यः सावधानः शृणोति
भुवि अवनिपतीशैर्मान्यतां मानिनीभि-
र्व्रजति हि परमन्ते शाश्वतं धाम मर्त्यः ॥ १६४ ॥
इति काश्मीरिकविबिह्लणविरचितं बिह्लणचरितापरनामके शचरितापरनामधेयं
चन्द्रलेखासक्तिबिह्लणकाव्यम् ।