पृष्ठम्:काव्यमाला (त्रयोदशो गुच्छकः).pdf/१७०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

काव्यमाला वल्गत्कठोरकुचमुन्नमितद्भ्रुकर्णे कण्डूयनं विदधतीं हृदि चिन्तयामि ॥ १२१ ॥ अद्यापि तां करिसमर्पितवामपाणि- माकुश्चितैकचरणाग्रनिरुद्धभूमिम् । स्कन्धावलम्बितभुजां पथि मां व्रजन्तं पश्यामि बन्धुरितकन्धरमीक्षमाणाम् ॥ १२२ ।। अद्यापि तां मयि दृशं तुदतीं स्मरामि स्मेरा स्मरद्धरकरां मधुरां सुताराम् । अत्युद्बलां सुरतलां कुटिलां सुशीलां निष्पन्दमन्दसमग्रमदप्रसादाम् ॥ १२३ ॥ अद्यापि नोज्झति हरः किल कालकूट कूर्मो बिभर्ति धरणीं खल पृष्ठसंज्ञाम् । अम्भोनिधिर्वहति दुःसहवाडवामि- मङ्गीकृतं सुकृतिनः परिपालयन्ति ॥ १२४ ॥ इत्थं कविः सुजनमध्यगतो बिलासै- र्नीन्तैर्विधैश्च रमयन्नृपसेवकाग्रे ते प्रोचुराः कविवरेन्द्र तथा तवेय- मसन्मनांसि हरतेऽन्यजनस्य नूनम् ॥ १२५ ॥ त्वं विद्वन्गुरुरेव बाडवजनैः पूज्यः सतां सर्वदा किं कुर्मः कथयाम संप्रति वयं लज्जान्विताधॊमुखाः । राजाज्ञां न करोति पण्डितवराधीनो यतः सेवकः का कोप सहते पराभवपदं प्राप्नोति को मानवः ॥ १२६ ॥ भूपादेशकरास्तथा पुरजनाः शृण्वन्तु ते मद्वचः पारत्रैहिकमेव यच्च तदहं जाने पदं निर्मलम् । तद्रूपा नृपवीरभूपतिसुता सा मे हृदन्तःस्थिता