पृष्ठम्:काव्यमाला (त्रयोदशो गुच्छकः).pdf/१७१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

बिल्हणकाव्यम् । उक्तस्तदा नृपजनैः सुजनैस्तथान्यैः भूयः कविः शशिकला हृदि चिन्तयित्वा निश्वस्य तां प्रति ततान सुरस्य वाक्या- त्त्यक्तो घृणां भयमपीह भविष्यमेतत् ॥ १२८ ॥ वेलाञ्चलं न्यस्य कुचाञ्चले मामालोकयन्ती नयनाञ्चलेन । इतो गता साध्वगता न जाने गेहं गता वा हृदयं गता मे॥ १२९ ॥ येऽमी कूर्चकवासकङ्कणरणत्कर्णाष्टसीमन्तिनी- हस्ताकर्षणविभ्रमे च सुहृदः प्राप्ताः परामुन्नतिम् । तेऽमी संप्रति यान्ति नायतभुजा मान्यन्निशान्तक्षुर!)- क्षुण्णाः क्षोगितलेपनानि पुरतः प्राप्तापराधा इव ॥ १३० ॥ भवत्कृते चाञ्जनमञ्जुलाक्षि शिरो मदीयं यदि याति पातु । नीतानि नाशं जनकात्मजायै दशाननेनापि दशाननानि ॥ १३१ ।। प्रासादे सा पथि पथि च सा पृष्ठतः सा पुरः सा पर्यङ्के सा दिशि विदिशि सा चोर्ध्वतः सा ह्यधः सा । हृद्यन्तः सा बहिरपि च सा नास्ति दृश्यं द्वितीयं सा सा सा सा त्रिभुवनगता तन्मयं विश्वमेतत् ॥ १३२ ॥ संगमविरहवितर्के वरमिह विरहो न संगमस्तस्याः सङ्गे सैव तथैका जगदिदं तन्मयं विरहे ॥ १३३ ।। हरिहरविधिमुख्या लोकपालाः समेता वच इह मम सर्वैः श्रूयतां साक्षिभिर्यत् । निवसति यदि चेष्टं भावनायां सुतथ्यं भवतु शशिकला यज्जन्मजन्मेऽपि जाया ।। १३४ ॥ मम यदि सुकृतं स्यात्पूर्वजन्मार्जितं चे- द्यदि सकलसुराणामर्चनं मेऽस्ति किंचित् । यजनहवनवेदाध्यासनं यन्ममास्ति तदपि शशिकला मे प्राणनाध्या तदास्त ॥ १.३५ ॥