पृष्ठम्:काव्यमाला (त्रयोदशो गुच्छकः).pdf/१६९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

बिह्लणकाव्यम् । अद्यापि तां समुपगम्य मयावृताक्षीं कोऽयं वदेत्यभिहिता बहुशः सखीभिः मातर्न विद्य इति ससितमुल्लपन्ती- मुत्पन्नगलपुलकाकुलितां स्मरामि ।। ११५ ॥\

अद्यापि तां गतिनिराकृतराजहंसी धम्मिल्लनिर्जितमयूरकलापमाराम् । चक्षुःश्रिया हसितमत्तचकोरनेत्रां संचिन्तयामि कलकण्ठसमानकण्ठीम् ।। ११६ ।। अद्यापि तो मदनमन्दिरवैजयन्ती- मन्तर्मुखे मद्धरोष्ठदलं विधाय । अङ्गैरनङ्गविकलैर्मम गाढमङ्ग- मालिङ्गय केलिशयितां दयितां स्मरामि ॥ ११७ ।। अद्यापि तामुपवने परिवारयुक्तां संचिन्तयाम्युपगतां च महोत्सवाय । मां पार्श्वसंनिहितलोकभवात्सराङ्क: व्यावर्तितेक्षणमनुक्षणमीक्षमाणाम् ॥ ११८ ॥ अद्यापि तांमुरसिजद्वयमात्रमध्ये नश्यद्वलिंत्रितयलक्षितरोमराजिम् । ध्यायामि बलिगतभुजां विहिताङ्गभङ्ग व्याजेन नाभिकुहरं मम दर्शयन्तीम् ॥ ११९ ॥ अद्यापि तानि मृदुसारसुभाषितानि तिर्यविवृत्तनयनान्तनिरीक्षितानि । लीलारसाञ्चितगतानि सुविसितानि तस्याः स्मरामि हृदि विभ्रमचेष्टितानि ।। १२० ॥ अद्यापि तामसममीलितसाचिनेत्रां लोलद्भुजां वलयझंकृतिशब्दहस्ताम् ।