पृष्ठम्:काव्यमाला (त्रयोदशो गुच्छकः).pdf/१६३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

बिह्लणकाव्यम् सुप्तोत्थितां मदनविह्वलसालसाङ्गीं विद्या प्रमादगलितामिव चिन्तयामि ।। ७५ ॥ अद्यापि तद्विकसिताम्बुजमध्यगौरं गोरोचनातिलकपाण्डुरमध्यदेशम् ईषन्मदालसविधूर्णितदृष्टिपातं कान्तामुखे पथि मया सह गच्छतीं च ।। ७६ ॥ अद्यापि तत्कनककुण्डलघृष्टगण्ड- मास्यं स्मरामि विपरीतरताभियोगे। आन्दोलनश्रमजलस्फुटसान्द्रबिन्दु- मुक्ताफलप्रकरविच्छुरितं प्रियायाः॥७७॥ अद्यापि तां शशिमुखीं नवयौवनाढ्यां पीनस्तनी पुनरहं यदि गौरकान्तिम् । पश्यामि मन्मथशरासनपीडिताङ्गीं गात्राणि संप्रति करोमि सुशीतलानि ।। ७८ अद्यापि तन्मनसि संप्रति वर्तते मे रात्रौ मयि क्षुतवति क्षितिपालपुत्र्या जीवेति मङ्गलवचः परिहृत्य कोपा- त्कर्णेकृतं कनकपत्रमनालपन्त्या ॥ ७९ ॥ अद्यापि तां मकरकेतुशरातुराङ्गी- मुत्तुङ्गपीवरपयोधरभारखिन्नाम् । संपीड्य बाहुयुगलेन पिबामि वक्त्रं प्रोन्मत्तवन्मधुकरः कमलं यथेष्टम् ॥ ८० ।। अद्यापि तां कुटिलकोमलकालकेशी- मुन्निद्रतामरसपत्र विशालनेत्राम् । प्रोत्तुङ्गपीवरकठोरपयोधराव्या ध्यायामि चेतसि यथैव गुरूपदेशस् ॥ ८१ ।।