पृष्ठम्:काव्यमाला (त्रयोदशो गुच्छकः).pdf/१६४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

काव्यमाला। अद्यापि तद्विकचकुन्दसमानदन्तं तिर्यग्विवर्तितविलोलविलोचनान्तम् । तस्या मुखं मयि मनागपि विस्मरामि चित्तात्कृतज्ञ इव हन्त कृतोपकारम् ।। ८२ ॥ अद्यापि तत्सरलमञ्जुलतुङ्गभासं किंचित्स्मितोच्छ्वसितपाण्डुरगण्डभागम् । पश्यामि पूर्णशरदिन्दुसमानकान्ति कान्ताननं विकचपङ्कजपत्रनेत्रम् ।। ८३ ।। अद्यापि तन्मदनकार्मुकभङ्गुरभ्रु दन्तद्युतिप्रकरकर्बुरिताधरोष्ठम् । कर्णावसक्तपुलकोज्ज्वलदन्तपत्रं तस्याः पुनः पुनरपीह मुखं स्मरामि ।। ८४ ।। अद्यापि तां झटिति वक्रितकन्धरायां न्यस्तैकपाणिकमलां स्वनितम्बबिम्बे । वामांसपृष्ठलुलदुज्ज्वलकेशपाशं पश्यामि मां प्रति दृशा बहुशः क्षिपन्तीम् ।। ८६ ॥ अद्यापि मामवगणथ्य कृतापराधं मां पादमूलपतितं सहसा चलन्तीम् । वस्त्राञ्चलं मम करानिजमाक्षिपन्ती मामेति रोषपरुषं वदतीं स्मरामि ॥ ८६ ।। अद्यापि तामभिविशालनितम्बबिम्बां गम्भीरनाभिकुहरां तनुमध्यभागाम् । अम्लानकोमलमृणालसमानबाहुं लीलालसाञ्चितगतिं मनसा स्मरामि ।। ८७ ।। अद्यापि तल्लुलितनादनिमीलिताक्ष- मास्यं स्मरामि सुतरां सुरतावसाने । तत्कालनिःश्वसितनिह्नुतकान्तकान्ति स्वेदाम्बुविन्दु परिपाण्डुरितं प्रियायाः ।। ८८ ॥