पृष्ठम्:काव्यमाला (त्रयोदशो गुच्छकः).pdf/१६२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

काव्यमाला वैश्याश्च सेवकजना नृपसेवकाश्चे- त्यन्ये प्रदुद्रुरिति गोविधिरेवमुक्त्वा ।। ६९ ।। ताम्बूलमेव द्धती खकरण कापि हारावलीमधृत तत्र परा कृशाङ्गी आलिज्य बाहुलतया स्वसखीं च कण्ठे योषित्प्रगच्छति गवाक्षपथं सलीलम् ॥ ७० ॥ कामी स चापि नरराजनिदेशतस्तै- र्वध्यावनीं प्रतिगुणैरभिनीयमानः । दृष्टो जनैः सकरुणं सुवराङ्गनाभि- रुक्तं तदा शिव शिवेति विमोचयैनम् ॥ ७१ ॥ वध्यावनीमथ निरोपितशूलरौद्रां नीत्वा कविं तु वधकाः कथयांबभूवुः । स्नानं विधेहि परिचिन्तय देवमाद्य- मन्ते मतिर्भवति या सुकवे गतिः सा ॥ ७२ ।। संसारदुस्तरपयोनिधितारणाय ध्यायन्ति यं विविधयोगरता मुनीन्द्राः । यः सर्वलोकहृदयाम्बुजकोशहंस- स्तं सर्वगं स्मर सदैव विमुक्तिहेतुम् ।। ७३ ।। लोकोक्तिषु स्थितवतीषु जनेषु सत्सु तामेव पश्यति पुरोऽपि च पृष्ठतोऽपि चित्ते स्थितामथ नरेशसुतां विचिन्त्य ह्यद्यापि तामिह हि वेद्मि न देवमाद्यम् ।। ७४॥ अद्यापि तां कनकचम्पकदामगौरीं फुल्लारविन्दवदनां नवरोमराजीम् । १. अस्माभिः प्राप्तेषु त्रिषु पुस्तकेषु एकस्मिन्पुस्तके 'इति बिह्लणकविविरचितं नव्यं स्वकथासंवलितं पूर्वचतुःसप्तत्यपरनामकं लघुकाव्यं समाप्तम् इत्युपलभ्यते, प्राचीनयोरित- रयोर्नेति.