पृष्ठम्:काव्यमाला (त्रयोदशो गुच्छकः).pdf/१४८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

काव्यमाला ग्रामारामकलत्रपुत्रममता त्यक्ता च दूरीकृता- स्ते मत्ताः करिणो विचित्रवपुषस्ते ते मया वाजिनः जीर्णायाचितलब्धनीरसतरेणान्नेन संप्रत्यहं प्राणाल्लक्ष्मि विभर्मि दीर्घतपसे मां मुञ्च मुञ्चाधुना ।। ८१ ॥ आरामैः सदनैर्हयैर्गजवरैर्गानैः परिक्रीडनै- र्वाद्यैर्यौवनगर्वमञ्जुलतरैर्वृन्दैश्च वामभ्रुवाम् । मुक्तिः स्याद्यदि तद्विहाय सकलं चैतत्प्रवीणा नराः कर्तुं हन्त तपस्तु मुक्तिसुखदं कस्मादरण्यं गताः ।। ८२ ॥ शिशिरकिरणो भानुर्वायुर्मही गिरयो नगाः सलिलमनलो यच्चैवान्यच्चराचरमस्ति वै तदखिलमिदं भस्मप्रायं भृशं प्रलयानले भवति मनुज स्थास्यत्येतत्कथं तव वै वपुः ।। ८३ ।। निजमतिसमा विद्याधीता कृतं द्रविणार्जनं प्रबलरिपवस्ते ते सर्वे जिता विविधोद्यमैः तदपि च कृतं कर्तव्यं यद्बभूव धरातले सरलमनसा संप्रत्येकां स्मरामि गिरीन्द्रजाम् ॥ ८४।। भक्तिर्देवे स्मरारौ विजनधनवने चास्ति नित्यं निवासो नाशं सर्वे मतास्ते मनसि मनसिजस्योत्कटा वै विकाराः लब्धं पातुं पवित्रं जलममरसरित्संभवं कन्दभक्ष्यं वैराग्यं जातमुच्चैर्मम जगति पुनर्नान्यदन्त्यर्थनीयम् ॥ ८ ॥ पातालं यासि चित्त श्रमसि च गगनं तन्निरालम्बमेकं नानारण्यं च नित्यं व्रजसि विशसि रे गह्वरं भूधरस्य । व्यर्त्यं कालं त्वमेवं गमयसि सकलं निर्विवेकेन नूनं मोक्षं क्ष्मारुट्फलं वै कलयसि न कथं तत्परब्रह्म दिव्यम् ।।८।। न धनं न सुतं न सुन्दरी न च वाञ्छामि गृहादिकं सुखम् । नवनीरदनीलविग्रहे किल भक्तिं तु विहाय केशवे ॥ ८७ ॥