पृष्ठम्:काव्यमाला (त्रयोदशो गुच्छकः).pdf/१४९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

वैराग्यशतकम् । कृष्णं केचन न स्मरन्ति नितरां दारिद्र्यदुःखातुरा- स्तं केचन न स्तुवन्ति विविधै रोगैर्भृशं व्याकुलाः नो केचन लोभलीनमनसः सम्यग्भजन्ते ततो द्वित्रा एवं तदङ्घ्रिपूजनरता मुक्तिं लभन्ते जनाः ॥ ८८ ।। क्वचित्कन्या जाता क्वचिदपि च पुत्रः समभव- त्क्वचिद्दिव्यं गानं क्वचिदपि विधानं मृतनृणाम् । त्क्वचिद्धास्यं रोदः क्वचिदपि भवत्यन्त्र भुवने भृशं मूढस्तत्त्वं तदपि न हि जानाति मनुजः ।। ८९ ।। अस्मिन्भूवलये जनस्य महिमा भाग्येन संजायते नो तत्रास्ति हेि कारणं प्रयतता नैवाथ कश्चिद्गुणः । काकायाशुचिभोजिने हि वितरत्युच्चैस्तु लोको बलिं मुक्ताहारपरायणाय शुचये नो हस्त हंसाय यत् ॥ ९० ॥ लुब्धः कश्चित्तु विश्वं धनमयमखिलं मन्यते कश्चिदुग्रैः स्मारैः सर्वैर्विकारैर्विलुलितहृदयो वेत्ति नारीमयं च त्यक्त्वाशेषप्रपञ्चः कलिकलुषमरत्रस्तचित्तोऽहमेको मोक्षाकाङ्क्षी समग्रं किल भुवनतलं ब्रह्मरूपं हि जाने ॥ ९१ ॥ विरसं परिणाम एव लक्ष्म्यास्त्वमवाप्य क्षणभङ्गुरं सहायम् । कुरु मानव मा मुधा हि गर्वं वद लक्ष्मीः किल कस्य चास्ति वश्या|९२।। इह जगति जनस्य कस्य चित्ते न वसति सौख्यविधानमुख्यवार्ता । खलु भवति तदेव तस्य सर्वं भुवनपतिस्तु यदीश्वरः करोति ॥ ९३ ॥ निर्मूलं सकलं जगज्जडमते जानीहि कूलं कलं गङ्गाया भज वल्कलं क्षितिरुहो दिव्यं दुकूलं कुरु । मूलं काननजं च भुङ्क्ष्व मधुरं संसारमूलं मुदा देवं नीरदनीलविग्रहधरं नित्यं समाराधय ॥ ९४ ।। ब्रह्मा भेजे मदनविकलः कन्यका तां निजां वै सीतां लङ्कामनयदतुलां रावणो रामजायाम् ।