पृष्ठम्:काव्यमाला (त्रयोदशो गुच्छकः).pdf/१४७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

वैराग्यशतकम् कायं मत्वा नश्वरं चञ्चलाभं चायुर्बुद्धा भङ्गुरान्सर्वभोगान् पारं गन्तुं विश्वसिन्धोर्विदग्धा योगाभ्यासे साधुबुद्धिं विदध्वम् ।। ७३ ।। निगमागमधर्मशास्त्रमार्गाः सकलाः सन्ति परस्परं विरुद्धाः । अत एव मतेः क्वचिन्न दार्ढ्यं भवति नृणामविवेकिनामिह ॥ ७४ ॥ काश्यां तिष्ठ सखे सुपर्वनिवहैर्नित्यं नुतायां भज श्रीकण्ठं निजभक्तरक्षणविधौ दक्षं दयावारिधिम् । गाङ्गे वारिणि पापहारिणि कुरु स्नानं सर श्रीपतिं त्वं कष्टेन विनैव मोक्षपदवीं प्राणात्यये प्राप्स्यसि ।। ७५ ।। विरमत बुधवर्याः संगमादङ्गनानां कुरुत कलुषवृन्दध्वंसनोग्रं हि धर्मम् । न खलु निरयमग्नानुद्धरिष्यत्यजत्रं कुवलयदलनेत्रा कौतुकं हन्त युष्मान् ॥ ७६ ॥ पापिष्ठाः सन्ति धान्यद्रविणसुतसुताबन्धुवर्गादियुक्ता दुःखैरुग्रैरनेकैर्विदलितहृदयाः सन्ति धन्याश्च सर्वे दृष्ट्वैतद्वैपरीत्यं कलुषसुकृतयोः शश्वदाश्चर्यभूतं जानेऽहं वै निदानं कलियुगमपरं तत्र नो वेद्मि नूनम् ।। ७७ ।। लोभग्राहविमोहमीनकठिनक्रोधस्फुरद्बाडव- क्रूरानङ्गकुलीरमत्सरजलैः पूर्णः समन्ताद्भृशम् । न ज्ञानाभिघमन्दरेण हृदयाम्भोधिर्दृढं मथ्यते यावत्तावदियं न मुक्तिकमला केनाप्यहो लभ्यते ॥ ७८ ।। दया दानं सत्यं परधनपरस्त्रीविमुखता क्षमा श्रद्धा देवद्विजगुरुगणे भक्तिरतुला । अनौद्धत्यं तृष्णानियमनमनङ्गाविकलता गणोऽयं वै लोकं नयति हरलोकं गतभयम् ॥ ७९ ॥ पुत्रं मुञ्चति मुञ्चतिं प्रियतमा सद्भातरं मुञ्चति स्वीयां मुश्चति शुद्धवंशजनितां शुद्धां वधूटीमपि । सर्वं मुञ्चति चान्यदप्यथ निजां मूर्तिं बलान्मुञ्चति क्षुद्रो मुञ्चति जातु नैव नियतं लोभं तु लुब्धो जनः ॥ ८ ॥