पृष्ठम्:काव्यमाला (त्रयोदशो गुच्छकः).pdf/१४६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

काव्यमाला स एवास्मिन्काले सकलजनसर्वस्वमधिकं य एवेह प्राज्य सततमथ दत्ते किल धनम् ॥ ६५ ।। सन्त्येते मामकीनाः परिणतमतयः सेवकाः सावधाना ग्रामाश्चैतेऽतिरम्योपवनगृहसर:कूपवाप्यादियुक्ताः । अश्वाः शस्त्राणि नागास्तरुणमृगदृशो वक्ति लोको यदेवं ज्ञेया माया मुरारेरसुरविजयिनः सा मतिर्भ्रंशकर्त्री ।। ६६ ।। किं तृप्तिर्न हि जायते वनफलैः किं वल्कलैर्नावृतं देहं हन्त भवत्यथो न सलिलैस्तृड्याति किं नैर्झेरैः । किं निद्रा समुपैति न क्षितितले यस्मादबुद्धिर्नरः कर्तुं हन्त तपः करोति न मनो भग्नो भवाम्भोनिधौ ।। ६७ ॥ विद्यानवद्या पठिता न चित्तं वित्तार्जने वापि मया न दत्तम् । धर्मः कृतो नैव समस्तु कालो हा लोभलग्नेन वृथैव नीतः ॥ ६८ ॥ यदन्या न ज्ञानादसि विषशरैर्हंसि पुरुषा- न्यदन्येषामर्थे प्रचुरतरविघ्नान्प्रकुरुषे । अधर्मे यन्निष्ठा तव नर गरिष्ठास्ति सततं किमाकल्पं मूढ त्वमिह भुवने स्थास्यसि ततः ॥ ६९ ॥ प्राणायामपरायणो भवतु वा योगैकनिष्ठोऽथवा किं वा साधुसमाधिसाधनविधिप्रौढो भृशं पूरुषः । किं वा सिद्धरसाञ्जनाद्भुतमणिग्रामप्रवीणः परं मृत्युर्येन विवर्तते स भुवने नास्ति प्रकारः परः ॥ ७० ॥ येऽरण्ये निवसन्ति ये च सदने ये भोञ्जते वै फलं ये वान्नं सलिलं पिबन्ति सरजं ये ये च कौपं परम् । भूमौ खलु शेरते च रुचिरे पल्यङ्कमध्ये च ये ते सर्वे निधनं प्रयान्ति समये कस्मिन्विशेषोऽस्ति कः ॥७१॥ बाल्यं गतं सकलमर्भकलीलयैव तारुण्यमप्यथ गतं विविधैर्विलासैः गङ्गातरङ्गकलनैरहमेतदुच्चै- र्वृद्धत्वमेव सकलं सफलं करिष्ये ॥ ७२ ॥