पृष्ठम्:काव्यमाला (त्रयोदशो गुच्छकः).pdf/१४५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

वैराग्यशतकम् दारिद्र्यं विबुधजनेषु वीक्ष्य लक्ष्मीमक्षीणामबुधगणेषु निन्दितेषु । दृष्ट्वैतत्कलियुगकौतुकं नितान्तं हा बाधा मम हृदि जायतेऽतिगुर्वी ॥५८॥ सन्ति क्षोणीतलेऽस्मिन्निजजठरदरीपूरणेऽतिप्रवीणाः कर्तुं स्वाभीष्टमेकं कृतविविधतरप्रोधमौघास्त्वनेके । ये वै कुर्वन्ति पूर्णां परजठरदरी ये पराभीष्टवार्ता ते तु त्रैलोक्यवन्द्या ध्रुवमवनितले दुर्लभाः सन्ति लोकाः ।। ५९ ।। दैवाद्यथा यस्य तु मृत्युरस्ति तथैव नूनं म्रियते स कालः । हन्तुं न शक्यस्तु निजेच्छया वै मत्तेन सूक्ष्मो मशको गजेन । ६० ॥ पुष्पाशुगः कुसुमचापवरो विदेह- श्चन्द्राबलाजनवसन्तसहायमात्रः। भस्मीकृतोऽपि हरनेत्रहुताशनेन कामः कदर्थयति हन्त तथापि लोकम् ॥ ६१ ॥ पल्यङ्को विगतः स संप्रति धरा प्राप्ता हि पल्यङ्कतां तन्नष्टं रुचिरोपधानमधुना जाता भुजा तत्पदे । तूली साप्यतुला किलाप विलयं दर्भावली तूलिका जाताग्रे बत किं करिष्यति विधिर्नाहं तु जाने ह तत् ।। ६२ ।। धत्ते मौनमनर्गलं किल पिता लुब्धो यदर्थं पुन- र्माता स्नेहभरं विमुञ्चति कलिं माता करोति स्फुटम् । सर्वे बन्धुजना यदर्थमशुभं वाञ्छन्ति नानाविधं भ्राष्ट्रे गच्छतु वह्निभारकलिते दुःखालयं तद्वसु ।। ६३ ।। कुर्यामहं दृढत्तरं भुवनाविपत्य दद्यां च दानमखिलागतयाचकेभ्यः हन्यां रिपूनिति नरास्ति तवाशयस्तु को वेद किं मनसि तिष्ठति विश्वभर्तुः ॥ १४ ॥ स मित्रं स भ्राता स च विमलबन्धुः स च पिता स सूनुश्चैवास्ते स च विमलकीर्तिः परिवृढः । न गु० १३.