पृष्ठम्:काव्यमाला (त्रयोदशो गुच्छकः).pdf/१४४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

काव्यमाला। वाङ्गनाधरदलामृतमम्बुनो वाः पीतं मया सुखकर सुरनिम्नगायाः । संदेहसिन्धुलहरीतरलेन नूनं कालः कलो हि सकलोऽप्यतिवाहितोऽयम् ॥ ५१ ।। ननु न निहताः कामक्रोधादयो न च शत्रवो न खलु भवनं नो वारण्यं मया परिसेवितम् । न तु वनफलं नो वा मुक्तं मया विविधाशनं नियतमखिलं जन्म स्वीयं कृतं हि निरर्थकम् ।। ५२ पुण्यासक्ताः वयं ये सततमथ नरान्वीक्ष्य पुण्यैकनिष्ठा- जायन्ते जातहर्षामृतरुचिरझरीक्लिन्नदेहाः समन्तात् । सेवां कुर्वन्ति ये वै सुमविशिखरिपोः सादरं सावधाना- तैरेवेयं धरित्री किल विमलतरैर्धार्यते पापगुर्वी ॥ ५३॥ येऽरण्ये विजने वसन्ति सततं संस्थानि ये भुञ्जते ये नित्यं भुवि शेरते तृणमयं चास्तीर्य रम्यासनम् । ये वै बिभ्रति वल्कलानि वनितां पश्यन्ति ये जातु नो तानप्येष तपोधनान्विकलयत्युच्चैः प्रसूनायुधः ॥ ५४॥ स्तुत्या न तोषो हृदि यस्य रोषो न निन्दया यस्य तथास्ति नूनम् । लामे च हर्षों नहि नास्त्यलाभे दुःखं स मुक्तो धरणौ हि वेधः ॥५५॥ नभ्यं चरणाम्बुज स्मररिपोः श्रव्या च का तत्कथा ज्ञेयं किं च विधानमेव सकलं तत्पूजनस्योच्चकैः । कः स्तुत्यश्च स एक एव सततं ग्राह्यं च किं कल्मष- ध्वंसे श्रेष्ठतरं च नाम नियतं तस्यैव भूमण्डले ॥ ५६॥ स्वल्पो जीवितकाल एष रचितो धात्रा पुनर्नश्वरं देहं हन्त कृतं च तत्र विविधा रोगाः पुनः कल्पिताः । एकस्यापि गुणस्य कोऽपि नियतं नो पारगो दृश्यते तस्मात्सर्वमपास्य मानस भज श्रीकृष्णपत्पङ्कजम् ।। ५७ ॥