पृष्ठम्:काव्यमाला (त्रयोदशो गुच्छकः).pdf/१४३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

वैराग्यशतकम् । धत्से यद्रुचिराम्बराणि कुरुषे यद्भोगमेणीदृशां यद्दानानि ददासि यासि तुरगैर्मत्तैर्गजेन्द्रैश्च यत् तत्ते प्राक्तनपुण्यकर्मफलितं भूयस्तदेवाचर स्वान्तं स्यात्पुनरन्यजन्मनि सुखं येनैव नानाविधम् ॥ १३ ॥ शेते संप्रति भोजनं प्रकुरुते नारीजने तिष्ठति क्षोणीशः समयोऽस्ति नैव नृपतिं त्वं रे कथं द्रक्ष्यसि यत्रैवं कथयन्ति दुष्टमतयो दौवारिकास्तत्र य- गच्छान्त्येव जडा जनाश्च नियतं तल्लोभविस्फूर्जितम् ॥ १४ ॥ भूपास्ते रणकर्कशा युवतयः सौन्दर्यसीमाश्च ताः सद्विद्यास्ववशीकृताखिलबुधस्वान्ताश्च ते पण्डिताः । अन्ये चैव नटा विटाश्च कवयः सद्गायना नर्तका- स्ते याता यदपाङ्गपातचकिताः कालाय तस्मै नमः ॥ १५ ॥ इन्द्रस्त्वं नृप सुन्दरी तव शची पुत्रो जयन्तोपमो गेहं भाति च वैजयन्तसदृशं नागोऽभ्रमोर्वल्लभः । इत्थं बोधकरैरसत्यवचनैः स्वैरं स्तुतः स्वं हरि वेत्ति प्रस्फुटविक्रमं स महिमा ज्ञेयो हरेर्मायिनः ॥ ४६ ॥ सद्विद्या सुकृतार्जितं वसु गुणग्रामाभिरामः सुतो भार्या यौवनरूपशीलरुचिरा सेवापराः सेवकाः । मित्रं निष्कपटं नृपो गुणगणग्राही च दाता पुन- र्नैतत्सर्वमवाप्यते हि मनुर्विष्णोः प्रसादं विना ॥ ४७ ।। अचला कमला हि कस्य कस्य क्षितिपालः किल मित्रमस्ति लोके । इह वश्यतमा च कस्य वेश्या स्थिरमप्यस्ति च कस्य देहसत्र ।। ४८ ॥ भोजनेन च धनेन सुदीर्घं जीवनेन तरुणीनिवहेन । जायते न मनसः परिपूर्तिस्तोत्र एव खलु तत्र विधेयः ॥ १९ ॥ यस्य भालफलके यदलेखि ब्रह्मणा खलु सुखासुखयोश्च । तस्य तद्भवति तत्र न युक्तौ कर्तुमेव नर हर्षविषादौ ॥ ५० ॥