पृष्ठम्:काव्यमाला (त्रयोदशो गुच्छकः).pdf/१४१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

वैसग्यशतकम् मानापमानसुखदुःखवियोगयोग- संपत्तिनैस्सख्ययुगलेषु समानबुद्धिः । मोहाम्बुपूरकलुषं च स एव नूनं संसारवारिनिधिपारमुदारमेति ॥ २८ ॥ पक्वानि सन्ति विपिनेषु फलानि तानि शीतानि निर्झरनदादिषु पुष्कराणि ज्ञेयो भृशं जडतरः स तु यः प्रभूणां सेवा करोति हि धनार्थमनेककष्टैः ॥ २९ ॥ न धनं न सुतो न सुन्दरी न गृहं नोपवनं न बान्धवाः । न ममास्ति हि किंचिदुच्चकैरिति यो वेत्ति न मोहमर्हति ॥ ३० ॥ रूपं सर्वमपाकरोत्यपनयत्युच्चैर्बलं देहजं ज्योतिर्नाशयति स्फुटं नयनयोः क्षामा करोति क्षुधाम् । अङ्गानामपि तानवं वितनुते व्याहन्ति शौर्यादिकं लोकायः प्रददाति हन्त नियतं किं किं न कष्टं जरा ॥ ३१ ॥ भवति कलहो येनान्योन्यं द्वयोरनुरक्तयोः प्रसरति पुनर्येनाकीर्तिमहीवलयेऽखिले । भुवनविदितं पुण्यं स्तोकं नयेन हि जायते मनुज नियतं तं वै लोभ परित्यज दूरतः ॥ ३२ ॥ क्रोधेनैव कृताजयः खलु मृतास्ते कौरवाः पाण्डवाः क्रोधेनैव सती जुहाव मखजे कुण्डे खकीयां तनुम् । क्रोधेनैव समं गतं यदुकुलं मैरेयपानाकुलं क्रोधो बोधरिपुर्विधातुमुचितस्तसान्न विज्ञैर्नरैः ॥ ३३ ॥ सन्ति त्वद्धाम्नि ते ते जवजितपवनाश्चारुवर्णास्तुरंगा- स्ते ते दानाम्बुधारामलिनतरकराः प्रोन्नता दन्तिनश्च । १. मेरेयं धातकीपुष्पगुडधानाम्बुसंहितम्' इति माधवः,