पृष्ठम्:काव्यमाला (त्रयोदशो गुच्छकः).pdf/१४०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

काव्यमाला। आलस्यं कुरु पापकर्मणि भव क्रूरः क्रुधस्ताडने नैष्ठ्युर्यं भज लोभमोहविषये निद्रा समाधौ हरेः । जाड्यं गच्छ परापवादकथने द्रोहं विधेहि स्मरे दोषा एवं गुणत्वमेवमखिला यास्यन्ति चेतस्तव ॥ २१ ॥ परिणतफलमूलैः शुष्कशाकैश्च नालैः कथमपि च कदन्नैः पूर्णकुक्षेः सुजीर्णैः धनवसनविहीनस्यास्य लोकस्य नूनं तदपि न विषयेच्छा मानसाज्जातु याति ॥ २२ ॥ ये दुर्जनाः सन्ति हि ते धनाढ्या ये सज्जनास्ते तु धनेन हीनाः दृष्ट्वा कले: कौतुकमेतदुच्चैः स्वान्तं नितान्तं मम तापमेति ॥ २३ ।। त्वगस्थिरुधिरामिषैः प्रचुरगूथमूत्रादिकैः कृतां जलजजन्मना सकलदोषसीमां वधूम् । अनङ्गशरजर्जरीकृतकलेवरः कातरो जरो जडमतिर्मुहुः प्रियतमेति तां भाषते ॥ २४ ॥ केचिद्रागेषु भग्नास्तरुणहरिणदृग्वृन्दकेलीषु केचि- त्केचिद्विद्याविनोदे सुललितकवितापद्धतौ चापि केचित् । केचिद्गोशस्त्रवाजिब्रजगजवसनस्वर्णरत्नादिकेषु द्वित्राः कृष्णाङ्घ्रिपद्मप्रचुरमधुझरीपानभाजो भवन्ति ॥ २५ ॥ किं वृक्षा विफलाः समं समभवन्कि कन्दहीना धरा निर्मूलानि वनानि तानि किमहो जातानि सर्वाण्यपि । लभ्यन्ते किमु न त्वचः क्षितिरुहां लोको न वस्त्रप्रियो यल्लक्ष्मीमदिरोत्कटान्नरपतीनश्रान्तमासेवते ॥ २६ ॥ विश्वामित्रादयस्ते क्व नु खलु विगता योगशास्त्रार्थविज्ञा युद्धे दक्षा बलिष्ठाः क्व नु खलु पटवः कर्णभीमार्जुनाद्याः ते मन्ये महान्तः क्वचन रसकलाः सांप्रत सन्ति यस्मा- द्देहं चैवानपायं निजमवनिवले मन्यसे मूढधीस्त्वम् ॥ २७ ॥