पृष्ठम्:काव्यमाला (त्रयोदशो गुच्छकः).pdf/१४२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

काव्यमाला। रत्नस्वर्णादिकानां नरवर निवहा भान्ति ते ते च नूनं मद्देहे निस्पृहत्वं भवति हि सकलं येन तत्पांशुकल्पम् ॥ ३४ ॥ किं कुर्वन्ति फलाशनं न विहगाः किं नो तवो () भुञ्जते दध्यादीन्यनिलं पिबन्तिः किमु नो सर्पा विषेणोद्धुराः । स्यादेवं यदि वै व्रती व्रतधरास्ते स्युस्तदा निश्चितं तस्माद्यः सुकृती स याति सुखदं लोकं हरेर्ज्ञानवान् ॥ ३५ ॥ मा भक्ष्यचिन्तां कुरु भक्ष्यदाता स एव येनास्ति कृतं हि जन्म । तं देवमाराधय पूरुष त्वं न स्याद्यदाराधनतस्तु जन्म ।। ३६ ।। गमयसि समय किमेवमेतैर्बत विषयैः क्षणभङ्गुरैः समस्तैः । अनुपमसुखदं तमेव देवं हृदय भजामि नवेन्दुखण्डचूडम् ॥ ३७. ।। पिबति सलिलं गाङ्ग भुङ्क्ते सुधाकरनिर्मलं बिसमथ तनुं वस्ते नव्यैर्धराभववल्कलैः । भ्रमति हरिणैः सार्धं स्वैरं घने विपिने हि यः स तु नरवरो देहान्ते तैः सुरैः सह मोदते ॥ ३८ ॥ न दातुं यः शक्तः कलुषहरदानानि नियतं न वा कर्तुं नाकप्रदमखविधानं बहुविधम् । स हीनः सर्वैस्तैरहह खलु सांसारिकसुखै- र्नरो दिष्टं व्यर्थं गमयति विनैकां हरिनुतिम् ॥ ३९ ॥ पुत्रमित्रवसुबन्धुपुरंध्रीग्रामधामरहिताः किल लोकाः । हन्त तेऽपि न भवन्ति विरक्तास्तेन मे भवति चेतसि चित्रम् ॥४०॥ चपलाचपलं हि जीवितं विषयाः सन्ति समे विषोत्कटाः । जडबुद्धिरसौ तथाप्यहो न जनो मुञ्चति तान्ननाक्क्वचित् ।। ४१ ।। हन्तुं केचन सन्ति मत्तकरिणां वृन्दं समर्थाः क्षितौ सिंह केचन कुम्भिकुम्भनिवहप्रध्वंसधीरं पुनः । शूराः केचन वज्रसारकठिनैः शस्त्रैर्युत्तं वैरिणं कन्दर्पोद्भटदर्पदारणविधौ वीरा नरा दुर्लभाः ॥ ४२ ॥