पृष्ठम्:काव्यमाला (त्रयोदशो गुच्छकः).pdf/१३८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
काव्यमाला ।

स्वान्तं नुः खलु सस्पृहं भवति वै श्रीकृष्णपत्यङ्कजे
 चेदेवं तु भवेत्क्षणार्धमपि तत्स्यान्मुक्तिरेव स्फुटम् ॥ ७ ॥
गतं चरणयोर्बलं भुजबलं तथा दृग्बलं
 बलं श्रवणयोस्तथा दशनजं बलं वा पुनः ।
परं प्रकृतिदुःखदा तदपि जीविताशा भृशं
 नरस्य तु दिने दिने बलवती बलाज्जायते ॥ ८ ॥
पुत्रः याति न पाति न प्रियतमा शौर्यं न पात्युद्भटं
 बुद्धिः पाति न पाति नैव कविता नो पाति विद्याबलम् ।
यातं वै परलोकमार्गममितं दीनं जनं केवलो
 धर्मः पाति ततस्तु धर्मकरणान्नान्यन्महीमण्डले ॥ ९ ॥
तटे भागीरथ्याः कुशरचितसत्पीठसुभगे
 स्थितः स्नातः शुद्धो धृतविमलदस्त्रोऽमलमतिः ।
नरो नाम नाम स्मरति नवशीतांशुशकलो-
 ल्लसन्मौलेर्वामां स तु भवति धन्यः क्षितितले ॥ १० ॥
यः सर्वत्र दयान्वितोः भवति यः सर्वत्र वै सत्यवा-
 ग्यः सर्वत्र कृतक्षमो भवति यः सर्वत्र स स्नेहादृक् ।
यः सर्वत्र सुरासुरार्चितपदद्वन्द्वाम्बुजामम्बिकां
 नित्यं संस्मरति क्षितौ स विबुधैर्योगीश्वरः कथ्यते ॥ ११ ॥
 बाल्यं गतं सकलमर्भकलीलयैव
 तारुण्यमप्यहह सत्तरुणीविलासैः।
 वृद्धत्वमस्ति नर संप्रति सार्थकं त-
 द्गगातरङ्गसवनैः सफलं विधेहि ॥ १२ ॥
किं दानेन मुहुः कृतेन कृतया किं वा हरेः पूजया
 किं वा धूर्ततया कृतैरनियमैर्नित्योपवासव्रतैः।
किं यज्ञैर्बहुदक्षिणैरपि कृतैः श्रद्धाविहीनः पुनः
 स्वान्तं चेच्छुचि नास्ति पूरुष तदा किं तैर्वृथाडम्बरैः ।। १३ ॥