पृष्ठम्:काव्यमाला (त्रयोदशो गुच्छकः).pdf/१३९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

वैराग्यशतकम् । कृतोर्ध्वपुण्ड्रो धृतशङ्खचक्रो वृन्दाक्षकैः कल्पितगात्रभूषः । करोति रामेति मुहुः प्रजल्पन्नरोऽतिधन्यः सफलं स्वजन्म ॥१४॥ सामर्थ्यं न तनौ मनागपि चलापाङ्गाङ्गनासंगमं कर्तुं हन्त मयास्ति नेत्रपटुता सर्वापि नाशं गता । सर्वे प्राणसमा गताश्च सुहृदो दुर्दैवदग्धं मनो नैवाद्यापि तथापि वाञ्छति जडं देहक्षयं मामकम् ॥१५॥ सन्ति क्षीणधनाः क्षितौ क्षितिभुजो दानाक्षमाः स्वामिनो दुष्प्रापो हि वसुंधरातलगतः कष्टैर्भहद्भिर्निधिः । द्रव्याधीनमहो सुखं न तु धनं कुत्रापि हा लभ्यते तस्मान्मानस सांप्रतं समुचितां भक्तिं मुरारेः कुरु ॥ १६ ॥ तृणानि पशवः समे खलु बने सुखं भुञ्जते पिबन्ति च बिलेशयाः किल सदागतिं सादरम् न जीवति नरो वरो नियतमन्नमेकं विना तदन्नमिह लभ्यते जगति कष्टपुञ्जैः परैः ॥ १७ ॥ याभ्यां नो हरिपूजनं खलु कृतं ताभ्यां कराभ्यां नु किं नो वै येन विधीयते हरिनतिः किं तेन मूर्ध्ना किल । किं वा तेन मुखेन येन सुखदा विष्णोः कथा नोदिता मन्ये धन्यतमं तदङ्गमिह यत्कृष्णार्हहणार्णाहं भुवि ॥ १८ ॥ या स्त्रीणां न करोति भोगमथवा नो ब्रह्मचर्यं दृढं नो भुङ्क्ते विविधप्रकारमशनं नो वा फलं भूरुहाम् । नो वस्त्रं हि बिभर्ति नेत्रसुखदं नैणं तु चर्माथवा दृष्ट्वा खलु भोगयोगविकलं स्वान्तं भृशं दूयते ॥ १९ ॥ जिता युद्धैर्युद्धोद्धरतरविपक्षप्रतिभटा जिता लोके लोकाः शुभतरगुणौधैश्च गुणिनः । कलावन्तः सर्वेऽप्यभिनवकलाभिश्च विजिता विजेतुं वै मृत्यु मनुज तव यत्न न कलये ॥ २० ॥