पृष्ठम्:काव्यमाला (त्रयोदशो गुच्छकः).pdf/१३७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१३२
वैराग्यशतकम्

गोस्वामिजनार्दनप्रणीतं
वैराग्यशतकम्।

कालिन्दीकलकूलकाननकृतक्रीडाकलापोल्लस-
 द्गोगोपालकबालकैः प्रतिदिशं सानन्दभाविष्ठितम् ।
वंशीनावशीकृतव्रजवधूखान्तं सदाह्लादकं
 सद्भक्त्या समुपास्महे वयमघध्वंसैकधीरं महः ॥ १ ॥
मोहं मुञ्च लुनीहि लोमलतिकां कामं च वामं त्यज
 प्रेमाबन्धमपाकुरु प्रविततं. प्रौढासु नारीषु च ।
संसारार्णवमग्नभक्तनिवहोद्धारक्षमं सादरं
 देवं नूतनवारिवाहरुचिरं चेतः समाराधय ॥ २ ॥
एताः कानपि मण्डयन्ति पुरुषान्नानाविधैर्भूषणै-
 रेताः कानपि वञ्चयन्ति च जनान्मिथ्यावचोभिः पुनः
एता वै रमयन्ति कानपि वरान्भावैर्मनोजोत्कटः
 स्वान्त भ्रान्त करोषि किं बत मुधा नारीषु हार्दं हि तत् ॥ ३ ॥
पुत्रो मित्रं कलत्रं वसु च वसुमती वेश्म वासश्च वीति-
 र्नागो रत्नं रथौघः परिजननिवहो नैव यास्यत्यनु त्वाम् ।
तस्मादस्माकमेतन्मतममृतसमं सावधानः शृणु त्वं
 सेवामेकां विधेहि प्रणतजनभयध्वंसधीरां मुरारेः ॥ ४ ॥
 वित्ताशया नृपतयः परिषेवितास्ते
 वित्ताशयैव खलु पर्यटिता धरेयम् ।
 लब्धं मयाल्पमपि नैव धनं क्वचिद्वै
 तृष्णेऽधुनापि कुटिले किल मां विमुञ्च ॥ ५ ॥
धरणी सकलावगाहिता धनलब्धेन मयातिदुर्गमा ।
न घनं खलु लब्धमल्पकं ननु तृष्णा न तथापि गच्छति ॥ ६ ॥
पुत्रे सर्वगुणान्विते रतिकलासौन्दर्यशीलादिकै-
 र्युक्तायां तु गुणैर्हि योषिति तथा चित्ते च नानाविधे ।