पृष्ठम्:काव्यमाला (त्रयोदशो गुच्छकः).pdf/१३६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

काव्यमाला । तथापि श्रीकान्तप्रगुणकथनेनात्र सुधियां भवेचित्तासक्तिर्यदि फलवती स्यात्कृतिरियम् ॥ २०० ।। न संदर्भ इति । स्पष्टम् ॥ भगवत्परायणैस्तचरितामृतश्रवणलुब्धैरिदमवश्यमादरणीयमेवेति प्रार्थयते- यदि श्रीमन्नन्दात्मजचरणराजीवमधुनः समास्वादासक्तो भवति भवतां चित्तमधुपः । कथायां वा तुच्छीकृतसुरसुधायां मधुरिपो- र्मनोदूतं काव्यं शृणुत सरसं भक्तिरसिकाः ॥ २०१ ।। यदीति । स्पष्टम् । भङ्ग्यन्तरेण काव्योत्पत्तिमाह - स्थिताद्वृन्दारण्ये तरणितनयातीरलहरी- परीरम्भादम्भःपृषतयुजि वंशीवटतले । सकान्ताच्छ्रीकान्तादधिगतवती सङ्गमनघा मतिर्मे प्रासूत ध्रुवमिह मनोदूततनयम् ।। २०२ ।। स्थितादिति । स्पटम ॥ वैदेन्दुवसुशीतांशु(१८१४) मितेऽब्दे मार्गशीर्षके सिताष्टम्यामिदं काव्यमर्पितं हरिपादयोः ।। नराणां धौरेयः सकलविदुषां शेखरमणि- र्वदान्यानामंग्रेसर इह महाभाग्यसुभगः कलानां सर्वासां सदनमतिसौजन्यललितो गुणानामागारो जयति हरिदत्तः प्रभुरसौ. ।। तदीयाया निष्कारणशुभदयायाः परिणम त्प्रकष्टोदर्काया जगति विदितः पात्रमिह यः । ततो योगक्षेमावधिगतवतस्तस्य च कवेः कृतिविद्वद्वन्द्यान्मुखयतु दयालुन्मयि जडे । इति श्रीमत्तैलङ्गान्वयश्रीभूधरमहात्मजश्रीरामकृष्णतनयपञ्चनदान्वयव्रजनाथ- विरचितं मनोदूताभिधं सहृदयहृदयाह्लादनापरनामधेयं काव्यं स्वकृत- मञ्जुभाषिण्या टीकया समेत समाप्तम् ।