पृष्ठम्:काव्यमाला (त्रयोदशो गुच्छकः).pdf/१३५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

मनोदूतम् स्वद्भजनं विना कथं मे संसारतरणं भविष्यतीति शोचन्नाह-- अये संसाराब्धौ महति पतितोऽघौघनिचितः कलत्रापत्यस्वप्रणयविवशः सत्यरहितः । सदा लोभक्रोधस्मरपरवशो भक्तिरहितः प्रभो संसाराब्धिं कथमिव तरिष्यामि भगवन् ॥ १९६ ।। अये इति । अघौघेति । 'कलुषं वृजिनैनोघम्' इत्यमरः ॥ निःसाधनस्य मे करुणाकूपारेण भवतैवोद्धारः कर्तव्य इत्याह-- मदुद्धारे हेतून्यदि मृगयसे हन्त कठिनो विधिः पापात्माहं विषयविवशो भक्तिरहितः दयालुश्चेत्सत्यं यदि भवसि निःसाधनमपि प्रभो दीनं मामुद्धर करुणया दुःखजलधेः ॥ १९७ ॥ मदुद्धारे इति । विधिः प्रकारः कठिनः । साधनहीनत्वान्ममेत्यर्थः ।। सांप्रतं त्वच्चरितामृतश्रवणेनैव संसारतरणम् , नान्योपाय इत्याह---- तिरोधाय स्वीयं त्रिभुवनमनोहारि ललितं स्वरूपं यच्व्द्यानाद्भवति कृतकृत्यो जन इह । कथं मुच्येतासौ पुनरिति विचिन्त्य स्वचरिता- मृताब्धिं यस्तेने स वसतु मदीये हृदि हरिः ॥ १९८ ॥ तिरोधायेति । स्पष्टम् ॥ स कोऽपि श्रीगोपीजनहृदयहारी प्रतिदिनं सदा ध्येयो नान्यः प्लव इह भवाम्भोधितरणे यदीयं नामेदं जगघभिदादीक्षितमहो स्मरन्भक्तः प्रेमामृतरसनिमयो विजयते ॥ १९९ ।। स कोऽपीति ! स्पष्टम् ॥ अत्र ग्रन्थे गुणालंकाररसायभावेऽपि भक्तानां रुचिर्भगवद्गुणवर्णनासक्तानां सहृदयानां भविष्यत्येवेत्याह- न संदर्भ प्रौढिर्न च गुणसमूहो न कविता- परीपाकः कश्चित्पदसुघटनाप्यत्र न तथा ।