पृष्ठम्:काव्यमाला (त्रयोदशो गुच्छकः).pdf/१३४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

काव्यमाला कृपापारावार क इह दयितां रक्षितुमलं पृथापुत्रैरेवं मनसि नियतं तर्कितमभूत् ।। १९१: ।। बिनेति । मारः कामः । मदनो मन्मथो भारः' इत्यमरः । तर्कितं विचारितम् ॥ प्रस्तुतां कथामुपसंहरन्सर्वेषां सं एवं शरण्य इत्याह--- इति स्त्रीयान्मक्तानवतिः बहुधाऽकारणसुहृ- त्प्रदेशोऽयं कश्चित्कथित इह दृष्टान्तविधये । रजःपुञ्जानुर्व्यां दिवि च गणयेद्योऽपि भगणं न शक्तः सोऽप्यस्याखिलगुणगणान्संकलयितुम् ।। १९२ ॥ इतीति । प्रदेश दिक्प्रदर्शनम् । संकलयितुं वक्तुम् ॥ ते विहाय तव कुत्रापि स्थैर्यं न भविष्यतीति चित्तं प्रत्याह- कलाः सर्वा ज्ञात्वा भ्रमधनकृते चित्तजगति क्षितीशानाराध्य द्रविणनिचयानर्जय बहून् । अनेकैः शास्त्रोत्थैर्विमलय यशोभिर्जगदिदं हरौ हित्वा प्रेम क्वचिदपि गतिर्नास्ति भवतः ॥ १९३... कला इति । स्पष्टम् ॥ तद्भजनं विना सर्वं व्यर्थमित्याह--- अविद्येयं विद्या भवति भगवद्भक्तिरहिता न चेद्विष्णोः प्रेमप्रसमरमहानन्दमहिता । न तावञ्चाञ्चल्यं त्यजति च मनोवृत्तिविहगी न यावच्छ्रीकृष्णसरणरसंसिन्धौ निपतति ।। १९४ ॥ अविद्येति । भगवद्भक्तिरहिता विद्याप्यकिंचित्करत्वादविद्यैव । “सा विद्या तन्मति- र्यया' इत्युक्तत्वात् ॥ न केवलं कथामात्रमिदम् । उपदेशोऽप्ययं सर्वेषामित्याह- इति स्मारं स्मारं तव गुणगणान्यादवपते मनोदूतं योऽन्यस्त्वयि निजकृते प्रेषयति चेत् । मुञ्चस्येनं तत्प्रणयरशनाशृङ्खलितहृ द्विभो भक्ताधीन श्रुतिशिखरमृग्योऽपि भगवन् ॥ १९५ ।। इतीति । स्पष्टम् ॥