पृष्ठम्:काव्यमाला (त्रयोदशो गुच्छकः).pdf/१३३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

मनोदूतम् दुकूलैः कौसुम्भैरतिललितमाञ्जिष्ठसलिला- रुणैः सूक्ष्मैनीलैरपि वसनकृत्कौशलयुतैः ॥ १८७ ।। सितैरिति । विचित्रैराश्चर्यजनकैः ।। पलाशाभैर्नानाविधकिसलयाकारविजय- प्रगल्भैः सत्सूचीरचितखगपुष्पादिरचनैः । समाच्छन्नानन्तैरपि विविधवासोविरचिता तदा पाञ्चालीव ध्रुवमजनि पाञ्चालतनया ॥ १८८ ।। पलाशाभैरिति । हरिद्वर्णैरित्यर्थः । पालाशो हरितो हरित्' इत्यमरः । किसलयानां नवपल्लवानां य आकारस्तज्जयप्रगल्भैः। सन्ति समीचीनानि यानि सूचीरचितानि खगानां शुकमयूरादीनां पुष्पाणां च विविधानां रचनानि 'कसीदा' इति भाषायां प्रतिद्धानि तानि ये तैर्वसनैराच्छन्ना विविधवासोभिर्विरचिता पाश्चाली कृत्रिमपुत्रिकेव । 'पाश्चालिका पुत्रिका स्यात्' इत्यमरः । पाञ्चालो द्रुपदस्तस्य तनया द्रौपदी ॥ अथ तदानीं दुःशासनावस्थामाह--- अथाकर्षन्नस्या वसनमधिसंसद्धृदि वह- न्नभिप्रायं दुष्टं शकुनिसहजादित्यजवशः । सभास्थैः साश्चर्यैः स्तिमितनयनैः पाण्डुतनयै- र्न्ऱुपैरन्यैर्दृष्टः शिथिलितभुजो नान्तमगमत् ॥ १८९ ॥ अथाकर्षन्नितिः । संसदीत्यधिसंसत् । सहजो दुर्योधनः । अन्तं वस्त्राणां समाप्तिम् ॥ भ्रमन्नेत्रस्तन्द्राकुलितविकलाङ्गोऽतिविवशः समुद्भूतस्वेदोऽनधिगतनिजाभीप्सितलवः । सदा मानी दुःशासन इति स दुर्योधनहिता- भिलाषी पापात्मा न्यपतददधमस्तत्र सदसि ॥ १९० ॥ भ्रमन्नेव इति । तन्द्रा आलस्यं तया आकुलितानि विकलानि विह्वलान्यङ्गानि यस्य सः ॥ पाण्डवैस्तु तदानीं तत्प्रभावो ज्ञात इत्याह- विना दीनोद्धारं भवजलधितारं व्रजवधू- हृदो हारं रूपद्रविणजितमारं नरवरम् । ग