पृष्ठम्:काव्यमाला (त्रयोदशो गुच्छकः).pdf/१२२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

काव्यमाला। 'न हि प्रयोजनमनुद्दिश्य मन्दोऽपि प्रवर्तते' इति न्यायात्तत्र प्रवर्तयितुं मह्त्यकरणे. समाधिस्थयोगिचित्तागोचरस्य भगवतो दर्शनेन ते महाँलाभो भविष्यतीति महत्प्रयोजन- माह- महांस्ते लाभोऽयं यदिह यमिनस्त्वां दृढतरं निरुध्यान्तर्युञ्जन्त्यसकृदनुकूलं प्रणयतः । समाधिस्था यस्य स्मरणविधये तं यदि पुरो मनः साक्षात्पश्येः किमधिकमितस्तेऽस्ति कथय ।। १३७ ।। महानिति । अस्य स्मरणविधये योगिनस्त्वां दृढतरमन्तर्निरुज्यासकृद्वारंवारं युञ्जन्ति तं यदि त्वं साक्षात्पश्येत्ततोऽधिकं किमस्ति । पूर्वोक्कै हृषीकेशत्वमेव प्रतिपादयति--- न नेत्रं रूपस्य ग्रहणकुशलं नामि रसनं रसज्ञाने गन्धग्रहणविषये प्राणमपि न । न शक्ता त्वक्स्पर्शानुभवजनने श्रोत्रमपि च त्वया हीनं शब्दग्रहणपटु न स्यात्किमपरम् ।। १३८ ॥ न नेत्रमिति। मनःसंयोगं विना इन्द्रियाणां स्वस्वविषयग्रहणासामर्थ्यमनुभवसिद्धम् । तथा च महाभारतेऽश्वमेधपर्वणि मनोवाक्यानि न घ्राते मामृते प्राणः रसं जिह्वा नः वेत्ति च । रूपं चक्षुर्न गृह्णाति त्वक्स्पर्श नावबुध्यते ॥ न श्रोत्रं बुध्यते शब्दं मया हीनं कथंचन । प्रवरं सर्वभूतानामहमस्मि सनातनम् ।।' इति । रसनं रसनेन्द्रियं रसज्ञाने शक्तं नेति योज्यम् ।। त्वदनुचराणीन्द्रियाणि त्वां स्वस्वविषये यतिष्यन्ते । तेषां मार्गं प्रवृत्तिरूपं विहाय निवृत्तिमार्गेण गमिष्यसि चेत्तत्प्राप्तिः सुलमा, नान्यथेत्याह- रसज्ञघ्राणत्वक्श्रवणनयनानि प्रतिलयं यतन्ते त्वां नेतुं यदपि च मनः स्वस्वविषयान् । तथापि त्वं साधो परिहरसि चेद्धर्मविषयं मदीयोऽयं चित्ताभिलषितविधिः सेत्स्यति तदा ।। १३९ ॥ रसज्ञेति । इन्द्रियाणि प्रमाथी हरन्ति प्रसभं मनः इति गीतोतः ।। प्रवृत्तिमार्गे भयं प्रदर्शयति- अये कामः क्रोधः प्रचुरतरलोभः स च मदो महामोहः सेोऽध्वनि किल वसन्त्यत्र नियतम् ।