पृष्ठम्:काव्यमाला (त्रयोदशो गुच्छकः).pdf/१२३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

मनोदूतम् । व्रजन्तं ते सार्थं प्रबलमपि मुष्णान्ति तदहो मदीयं त्वं मागा हृदय कलयेदं हितवचः ॥ १४०।। अये इति । कामादयश्रौरा मुष्णन्ति । धर्मरूपं धनमिति शेषः। हे हृदय, त्वं तत्र मा गाः । मदीयं इदं हितशवचः कलय । अस्मिन्मार्गे खेदशङ्कापि नेत्याह--- अहो खेदः सोढुं कथमपि न शक्योऽध्वजनितो मयेति ब्रूषे चेच्छृणु हृदय यद्वच्मि भवते । चिदानन्दाकारं भवजलधिसारं कलयतः समारम्भॊ भावी श्रमनिकरनाशैकनिपुणः ॥ १४१ ।। अहो इति । स्पष्टम् ॥ किं च तत्समीपं गच्छतस्ते स एव श्रेयः कर्तेत्याह ---- स ते मार्गे श्रेयो दिशतु शुभकृत्सर्वजगतां यदीयं सौन्दर्यं हृदयहरणं गोपसुदृशाम् । मुमुक्षूणां ध्येयं विपदुदधिसंसारतरणि- र्विपन्नानां चिन्तामणिरखिलवाञ्छार्पणविधौ ॥ १४२ ।। सते इति । तरणिर्नौका । पुनरपि शीघ्रं गमनं प्रार्थयते--- विलम्बं मा कार्षीः कुतुकतरलं क्वापि भव मा त्यजात्यन्तं रूपादिषु च परमासक्तिमनघ । इतो गन्तव्यास्ति त्रिभुवनललामाद्भुतनिधिः पुरी द्वार्वत्याख्या निखिलनगरी शेखरमणिः ॥ १४३ ॥ विलम्बमिति । कुतुकं कुतूहलम् ! गन्तव्यदेशमाह-इत इति । द्वार्वती द्वारिका । अथ त्रयोदशभिर्द्वारिकां वर्णयति- समुद्रेणाक्षिप्ता परित इह हेमाच्छवरणा निधानं दिव्यानां समुपकरणानां मणिमयी विचित्रा वृष्णीनां विजितसुरयानैर्गृहवरै- र्नरैरप्यच्छाभैर्विविधमणिवस्त्रौघसुलभैः ॥ १४४ ॥ समुद्रेति । वरणः प्राकारः । सुरयानं विमानम् ॥