पृष्ठम्:काव्यमाला (त्रयोदशो गुच्छकः).pdf/१२१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

मनोदूतम् । ११५ सभायामांनीता शरणरहिता जालपतिता कुरङ्गीव त्रासाद्भृशतरमसौ कम्पमभजत् ॥ १३२ ॥ अथेति । समयबद्धान् सत्यमयपाशबद्धान् । तदानीमनन्यशरणा सा भगवत्स्मरणं कृतवतीति कथयितुं कविमनसो दूतत्वं परिकलय्य कथां रचयति- विचारं वाकार्षीदहह न पिता नापि दयिता न पुत्रा न भ्राता शरणमिह मेऽद्यास्ति न गुरुः ऋते भक्ताधीनाद्यदुकुलवतंसादपर इ- त्यथो सारं सारं मुररिपुमहं यामि शरणम् ।। १३३ ।। विचारमिति । स्पष्टम् ॥ स चात्यन्तं दूरे क इह तमथावेदयति में समासन्नं दुःखंं भृशमपरिहार्यं प्रयतनैः । तदर्थं स्वान्तं तत्सविधमुपनेष्यामि निजमि- त्यसौ संबोध्य स्वं द्रुपदतनया चित्तमवदत् ॥ १३४ ॥ सचेति । प्रयतनैः प्रयत्नैः । स्वान्तं मनः । 'स्वान्तं हृन्मानसं मनः' इत्यमरः ॥ अथान्यविषयासक्तिं त्यक्त्वा तत्परस्यैव चित्तस्य भगवति प्रवृत्तिरिति वक्तुं मनसः प्रशंसापूर्वकं स्वदूत्येऽनुकूलयितुं प्रार्थनामाह सप्तभिः-- हृषीकाणामीशं त्वमसि सकलानां त्रिभुवन क्षणाद्गन्तुं शक्तस्तदिह कलये दूत्यनिपुणम् । इतो गत्वा शीधं मधुमथनपार्श्वे कथय मे प्रवृत्तिं दीनाया ध्रुवमशरणाया हृदय भोः ।। १३५ ।। हृषीकाणामिति । इन्द्रियाणां मनश्चस्मि' इति गीतोक्तेः । अयि स्वान्त क्लान्ता भृशमहामिह त्वां पटुतरं विधाने निश्चित्य ध्रुवमनुनयामि प्रणयतः । हृषीकाणामीशं कथमिदमयोग्यं तव पुनः करिष्ये दूतत्वं तदिति किल मा गा विधुरताम् ॥ १३६ ॥ अयीति । स्पष्टम् ॥ त्रगु०.११