पृष्ठम्:काव्यमाला (चतुर्दशो गुच्छकः).pdf/८८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

काव्यमाला नोपभोगपरानर्थात्कोऽपि संचिनुते चिरम् । आखवः किमलंकारानात्मन्यादृत्य कुर्वते ।। ७४ 11 विवर्णवचनैर्मन्युगूढोऽप्यन्तः प्रकाशते । इन्धनान्तरसंस्थैश्च ज्वलत्यग्निः पयःकणैः ॥ ७५ !! निकटस्थं गरीयांसमपि लोको न मन्यते ।। पवित्रामपि यन्मर्त्या न नमस्यन्ति जाह्ववीम् ।। ७६ ॥ स्वजनः स्वात्मवज्जन्तुर्ज्ञायते गुणवान्परैः । गोपैर्योपवदज्ञायि हरिर्देवैर्जगत्पतिः ।। ७७ !! उत्तमस्तोषमायाति तदङ्गः पोष्यते यदि । वृक्षः प्रसीदति प्रायः पादाभ्यङ्गेन न स्वयम् ॥ ७८ ॥ सर्वत्र गुणवानेव चकास्ति प्रथिते नरे । मणिमूर्ध्नि गले बाहौ पादपीठेऽपि शोभते ॥ ७९ ॥ उत्तमं सुचिरं नैव विपदोऽपि भवन्त्यलम् । राहुग्रसनसंभूतक्षणो 'विच्छादयेद्विधुम् ।। ८० ।। प्रायः स्वभावं मुञ्चन्ति सन्तः संसर्गतोऽसताम् । चण्डाश्चण्डातपात्पादा हिमांशोरमृतसृजः ॥ ८१ ॥ तुल्यं परोपतापित्वं क्रुद्धयोः साधुनीचयोः । न दाहे ज्वलतोर्भेदश्चन्दनेन्धनयोः क्वचित् ।। ८२ ।। न भाति वाञ्छा वैजात्ये न देवा भान्ति वादिनि । अञ्जनं दूषणं वक्त्रे भूषणं किल लोचने ॥ ८३ ॥ दुर्भगः स्वात्प्रकृत्या यो विभूत्यापि स तादृशः । गोमयः श्रीनिवासोऽस्ति न तथापि मनोहरम् ॥ ८४ ।। गुणानर्चन्ति जन्तूनां न जाति केवलां क्वचित् । स्फाटिकं भाजनं भग्नं काकिण्यापि न गृह्यते ।। ८५ ।